________________
अर्हद्धर्ममङ्गीकरणम्
* अत्यंताहारतस्तस्यै-वाह्रो निशि विपद्य सः ।। समाधिना रंकसाधु-यंत्राजायत तत् शृणु ।।१५।।* * श्रीमौर्यवंशेऽभूच्चंद्र-गुप्तो राजा तदंगजः ॥ बिंदुसार इति क्षमापो-ऽशोकश्रीरिति तत्सुतः ।।१६।। तत्पुत्रस्य से
कुणालस्य । पुत्रत्वेनोदपद्यत ।। स रंकजीवोऽभूस्त्वं हि । धर्मो भवति कामधुक् ।।१७।। इति श्रुत्वा संप्रतिनृपः । * सुहस्तिनं व्यजिज्ञपत्-भगवंस्तत्त्ववित्सर्व-जीवजीवातुसंनिभ ।। त्वत्प्रसादभावोऽयं । यत्प्रापं श्रियमीदृशीम् ।।१।। * पूज्यपादैर्यदि पुरा । भवे स्यां न हि दीक्षितः । तदा मम स्यादस्पृष्ट-जिनधर्मस्य का गतिः ? ॥२।। तत्प्रसद्य में
ममादेशं । प्रयच्छत करोमि किम् ।। नाहं स्यामनृणो वः प्रा-ग्भवोपकृतिकारिणाम् ।।३।। यतः-प्रत्युपकुर्वन् * - बह्वपि । न भवति पूर्वोपकारिणा तुल्यः ।। एको तु करोति कृतं । निष्कारणमेव कुरुतेऽन्यः ।।१।। प्राग्जन्मनीवर * मे यूयं । गुरवोऽत्रापि जन्मनि ।। व्यापारयत कर्तव्य-विधौ मां धर्मपुत्रकम् ।।२।। सुहस्त्यप्याहस्म-महाराजैकमेवार्ह-. * द्धर्ममंगीकुरु ध्रुवम् ।। योऽत्र राज्यादिकृत् प्रेत्य-भवे स्वर्गापवर्गदः ।।१।। ततोऽङ्गीचकार सम्यक्त्वादिद्वादशव्रतानि *
संप्रतिनृपः । त्रिसंध्यमपूपुजज्जिनार्चाः, व्यधत्त साधर्मिकवात्सल्यं, प्रावर्तयत्सर्वत्रामारिघोषणां, दत्तेस्म दीनादिदानं, र - असाधयद्भरतार्धं, विततान जिनभवनभूषितं भूतलं, अग्राहयत्सम्यक्त्वादि सामंतादिजनं, व्यरचयदार्यदेशानिवा* नार्यदेशाननगारविहारक्रमयोग्यान्, अदापयच्चात्मद्रव्येण लोकात्साधुभ्यः प्राशुकमशनादि, भणितं च-उपदेशः * - फलत्येव । सत्पात्रे प्रतिपादितः ।। उप्तं बीजमिव क्षेत्रे । सुष्टु कृष्टिमतीकृते ।।१।। गृह्णन्ति साधवोऽपि प्राशुकमिति । * धिया विविधमशनादि, आर्यसुहस्त्यपि तदकल्प्यं विदन्नपि न न्यषेधयत्साधून्, बलीयान् शिष्यानुरागः ।
प्रश्नो. सटीका ॥३०॥
Education International
For Personal & Private Use Only
www.jainelibrary.org