________________
रंकस्य दीक्षा
* जणयइ । ततो जातप्रत्ययो नखच्छोटनिकापूर्वमब्रवीत्-भगवन्नेवमेवैत-न्न संदेहो मनागपि ।। किंतु पृच्छामि यूयं * * मा-मुपलक्षयतोत न ? ॥१॥ सुहस्त्यपि दत्तोपयोगस्तत्स्वरूपमवेत्येत्याहस्म-नृपोपलक्षयामस्त्वां । तथा त्वं के * पूर्वजन्मनः ।। निवेद्यमानं वृत्तांतं । सावधानमनाः श्रृणु ।।१।। पुरा श्रीमन्महागिर्या-चार्यपादैः समं वयम् ॥
विहरन्तोऽतुच्छगच्छा । वत्सपत्तनमागताः ।।२।। तत्रोपाश्रयसंकीर्ण-त्वेनास्थाव पृथक्पृथक् ।। परिच्छदस्तदानीं । * हि । महानभवदावयोः ।।३।। तस्मिन् क्षणेऽभूद् दुःकालः । करालो यत्र देहिनः ।। धर्मध्यानं विमुच्यैकं । *
धान्यध्यानमशिश्रियन् ॥४।। विहर्तुमेकदैकस्य । कस्यचित् श्रेष्ठिनो गृहे ।। मुनी प्रविष्टौ तत्पृष्ठे । रंकोऽप्येकः * * समाविशत् ।।५।। तस्य पश्यत एवेच्छे-च्छेति जल्पनपूर्वकम् ।। प्रापतुः प्राशुकं साधू । मोदकाद्यशनं घनम् ।।६।। * कृतकृत्यौ ततः साधू । गच्छंती वसतिं प्रति ।। रंकोऽनुगो जगौ भोज्यं । दीयतां क्षुधितस्य मे ॥७।। मुनी से * अप्यूचतुर्भद्र । दातुं किमपि न क्षमौ ।। क्षमस्तु गुरुरस्माकं । तदेहि तदुपांतिकम् ।।८।। ततस्तत्पृष्ठलग्नः सः । *
समियाय प्रतिश्रयम् ।। तत्र चास्मान्निरीक्ष्योच्चै-रयाचत च भोजनम् ।।९।। अभ्यधायि च साधुभ्यां । भगवंतोऽमुना* ध्वनि ॥ अतिदीनाननेनावां । याचितौ भोजनं मुहुः ।।१०॥ श्रुतज्ञानेन विज्ञात-मस्माभिरपि यद्धृशम् ।। अयं में * रंकः प्रवचना-धारो भावी भवांतरे ॥११॥ ततः स मधुरालाप-पूर्वमस्माभिरौच्यत ।। यदि गृह्णासि चारित्रं । * * दास्ते भोजनं तदा ।।१२।। सर्वकष्टमयोऽप्यग्रे । तत्कष्टं व्रतजं वरम् ।। यत्रेष्टभोज्याप्तिरिति । स्वीकृतं तेन तद्वचः * * ॥१३।। दीक्षयित्वा ततोऽस्माभि-र्भोजनादि स भोजितः ।। तेनापि तत्तथा भुक्तं । श्वासरोधो यथाऽजनि ।।१४||
प्रश्नो. सटीका ॥२९॥
ducation
For Person
& Private Use Only
www.jainelibrary.org