SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ कथा ************** * ततः सोऽनन्तं भवं भ्रांत्वा सेत्स्यति । इति सुलसकथां विचार्य विद्यु-द्विलसितलोलखलांगिनां प्रसंगम् ।। प्र.५९ * परिहरततरां विवेकभाजो । यदि भवतामपवर्गशर्मणीहा ।।१।। उ.७३ विचित्र ॥ इत्याचार्यश्रीदेवेंद्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तौ विद्युद्विलसितलोलदुर्जनसंगतौ सुलसकथा ।। राजपुत्र * पुनस्तस्मिन्नेवैकोनषष्टिसंख्ये शिष्यकृते प्रश्ने गुरुस्तदनुयायि द्वितीयं त्रिसप्ततितममुत्तरमाह-युवतयश्च, में * व्याख्या -हे वत्स! न केवलं विद्युद्विलसितचपलं दुर्जनसंगतं, किन्तु युवतयोऽपि स्त्रियोऽपि, तद्वच्चापल्यात्कपटपटवो * भवन्ति, यदुक्तं-वदनेन वदन्ति वल्गुतां । निशितेन प्रहरन्ति चेतसा ।। मधु तिष्ठति वाचि योषितां । हृदये * ऋ हालाहलं महाविषम् ।। १।। चशब्दः समुच्चये, अत्रार्थे विचित्रराजपुत्रकलत्रकथा, तथाहि इहैव जंबूद्वीपे द्वीपे भारते वर्षे विशालापुरीपरिसरभूभागाभ्यर्णवर्तिसिद्धाभिधानो ग्रामः, यत्रांगनाजनशिरश्चिकुरेषु । * बंधः । सारीषु मारिरुदधावधिकं जडत्वम् ।। निस्त्रिंशतासिषु कलंककला मृगांके। शोश्रूयते न मनुजेषु * * कदाचनापि ।।१।। तत्र विचित्रो नाम राजपुत्रः, यथाऽचलेषु त्रिदशाचलो यथा । पयोधिमध्ये चरमः के पयोनिधिः ।। यथा वनश्रेणिषु नंदनं वनं । तथैव यः शौर्यप्रमुखैर्गुणैर्गुरुः ।।१।। स कदाचिदात्मपत्न्याऽऽनयनाय र * विशालां प्रति चलितः, सायं तत्परिसरपितृवनांतर्गच्छन्नेकत्र कांचिदेकाकिनी स्त्रियं रुदंती नीरंगीस्थगिताननां ने प्रश्नो. * करस्थितभाजनां दृष्ट्रवमभाषिष्ट-भद्रेऽत्रैकाकिनी केन । कारणेन निरीक्ष्यसे?।। किं वा केनापि हि त्यक्ता?। * सटीका * किं वा पत्या निराकृता? ।।१।। किं वा कोऽपि गतो बंधु-जनः कीनाशदासताम्? ।। यदेवं रोदिषि त्वं * ३८८ rivale Use Only www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy