SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ ***** सकलेऽपि लोके ।।१।। तत्त्वमस्य परितो महात्मनो । दूषणं निखिलदुःखकारणम् ।। माऽभिधेहि न हि सज्जनो जनः । स्यात् कदापि परमर्मभाषकः ||२|| वरुणोऽप्येवं निशम्य विमना इत्याचिन्तयत् - अहो धिग्दृष्टिरागं य-द्रागौ स्तः स्नेहकामयोः || सुवार्यो दृष्टिरागस्तु । दुर्वार्यो विदुषामपि ||१|| किंच- कलिकालविलसितमिदं । ह्यतो न लोकस्य दूषणं किमपि ।। यज्जिनगदितं भगवन्त-मागमं श्रयति नो मूढः ||२|| तदस्यावश्यं विघ्नं । भावि यदेषोऽनुशासितोऽपि मया । विरमति न कुदृक्संगादुत नाऽज्ञः सदुपदेशार्हः ।। ३।। यदुक्तं-अन्नाणह उवएसडो । निष्फल होइ न भंति || पाणी घणउ विलोडीओ । करचुप्पडा न हुंति ||१|| तदनेन कृताऽनयेन मे । तनयेन द्रविणेन वाऽधुना ।। कृतमर्हदुदाहृतं व्रतं । भवसंविग्नमनाः समाश्रये ||२|| इति ध्यात्वा सप्तक्षेत्र्यां वित्तबीजमुत्वा तदानीमेवागतधर्मवसुकेवलिपार्श्वे प्रव्रज्य शिवमभजत् । अहो सद्यः फलदायिनी सतां संगतिः! यतः–सन्तः संसेविताः सन्तः । सर्वेषां स्यु: सुखावहाः ।। तृषाविषादः किं दृष्टो । यादसामब्धिवासिनाम् ।।१।। सुलसमप्यपरापरलिंगिसेवासावधानं स्वसेवानिरवधानं च समालोक्य स औलुक्यचरकः कोपाटोपादित्यचिन्तयत् - अहो अयं कृतघ्नो यन्मां मुक्त्वान्यं निषेवते ।। तत्किमप्यस्य तत्कुर्वे । येनासौ दुःखभाग्भवेत् ।।१।। इति ध्यात्वा स पापः सुलसमुद्दिश्य मंत्रतंत्रनिपुणः सूचीविद्धं कुशपुत्रमसूत्रयत् । ततः सुलसः सर्वांगरंगद्वेदनोऽशुभध्यानो मृत्वा नरकमगमत्, अहह ! विद्युद्विलसितलोला दुर्जनसंगतिः ! उक्तं च - विद्युद्विलसिततरलो । दुर्जनसंगो विशारदैरुक्तः ।। इह लोकेऽनर्थकरः । परलोके दुर्गतिनिदानम् ||१|| Jain Education International For Personal & Private Use Only ***** प्र. ५९ उ. ७२ कुदृष्टिराग गृहीतः सुलस: प्रश्नो सटीका ३८७ www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy