SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ * तस्मात्कल्याणानां । सर्वेषां भाजनं विनयः ।।३।। तत् श्रवणाद्विरक्तः श्येनः प्राव्राजीत् । विनयपरोऽपि स * प्र.५७ * सरोग इव सत्क्रियासु मंदाऽऽदरोऽजनि । सिद्धस्तु वृद्धपितृविनयार्थं भावयतिवद् गृहे वसन्नेवेत्यचिन्तयत्-कदा उ.७० न छित्वा गृहवास-पाशमंगीकृतव्रतः ।। आचरिष्यामि विनय-स्थितिं गुरुकुलादिषु ।।१।। इत्यादि ध्यायन सिद्धः के सिद्धकथा कियन्तं कालमत्यवाहयत् । अन्यदा सिद्धवंदापनाय समेतः श्येनमुनिः । सिद्धेनापि सविनयं वंदितः, ततो * द्वावप्युपविष्टौ, मिथो धर्मकथापरावकस्मादाकाशादशनिपातेन विपेदाते, अहह ! दुर्निवारः शमनव्यापारः ! . * उक्तं च-वज्रकायशरीराणा-महंतां चेदनित्यता ।। कदलीगर्भसाराणां । का कथान्यशरीरिणाम्? ।।१।। जातस्तद्विपत्ति- * * दुःखितो जनकः, यतः-बालस्स माइमरणं । भज्जामरणं च जुव्वणारंभे ।। वुढ्ढुस्स पुत्तमरणं । तिन्निवि गुरुयाइं * * दुक्खाइं ।।१।। तत्रान्यदा समवसृतो युगंधरनामा केवली, गतस्तद्वंदनाय वसुरन्योऽपि जनः, प्रणमनानन्तरं । * द्वयोरपि सुतयोर्गतिविशेषं वसुना पृष्टोऽभाषिष्ट-कल्याणिन्नादिमे कल्पे । सिद्धोऽभूद्भासुरः सुरः ।। श्येनः पुनरभूद्वान-व्यंतरः परमर्द्धिकः ।।१।। यतः सिद्धस्य विनया-दिककर्तव्यकारिणः।। निरन्तरं व्रताऽऽदाने । * मनीषाजनि निस्तुषा ।।२।। श्येनस्य तु गृहीतार्हद्-व्रतस्यापि न तादृशी ।। तत्पालनमतिर्यस्मा-गतिर्भावानुसारिणी * ||3|| तदाकर्ण्य पित्रादिलोकस्तत्तादसिद्धविनयप्रशंसापरो विनयाभिग्रहान गहीत्वा केवलिनं नत्वा स्वस्वस्थानमगमत् । इति सिद्धचरित्रमद्भुतं । निशम्य ध्रुवमेव धीधनाः ।। विनयस्य विधिविधीयता-मधिकं येन प्रश्नो. जगद्वशीभवेत् ।।१।। सटीका ।। इत्याचार्यश्रीदेवेंद्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तौ प्राणिगणवशित्वहेतुर्विनीतसिद्धकथा ।। * ३८० Ja u cation International C&Private Use Only www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy