SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ * वर्ण्यमानः स्वस्थानमगात् । वसुरपि सपर्वतो देवताहतो नरकमगमत् । इत्थं नरा नारदविप्रवृत्त-माकर्ण्य * प्र.५७ सत्यप्रियजल्पकत्वम् ।। समाश्रयध्वं यदि विश्वलोक-वशीत्ववांछाद्रियते भवद्भिः ।।१।। उ.७० विनीतवशे ॥ इत्याचार्यश्रीदेवेंद्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तौ वशीत्वहेतौ सत्यप्रियजल्पे नारदविप्रकथा ।। जगत् पुनस्तस्मिन्नेव सप्तपंचाशत्संख्ये शिष्यकृते प्रश्ने गुरुस्तदनुयायि द्वितीयं सप्ततिमितमुत्तरमाह-विनीतस्य, * सिद्धकथा * व्याख्या-हे वत्स ! केवलं सत्यप्रियभाषिणो वशे प्राणिनो न स्युः, किंतु विनीतस्यापि, विनयार्हेष्वा-* चार्योपाध्यायादिषु विनयादिना विशेषेण नीतः प्रापितो विनीतस्तस्य, नूनं विनयेनैव पुमान् भाति, न तु * भूषादिभिः, यदुक्तं-न तथा सुमहर्धे-रपि वस्त्राभरणैरलंकृतो भाति ।। श्रुतशीलमूलनिकषो । विनीतविनयो * यथा भाति ।।१।। अत एव विनीतस्य सर्वोऽपि वशीभवेत् । अत्रार्थे सिद्धकथा, तथाहि* इहैव जंबूद्वीपे द्वीपे भारते वर्षे तगरा नाम नगरी, यत्र वृत्ररिपुवंदितपादां-भोजपारगतमंदिरकुंभाः ।। - * भव्यलोककृतपुण्यसमावि-भूतशर्मकलशा इव भान्ति ।।१।। तत्र वसुर्नाम श्रेष्ठी, तस्य श्येनसिद्धाभिधानी * - नंदनौ, त्रयोऽपि ये भद्रकभावरक्ताः । परिस्फुरत्सुनृतकृत्यसक्ताः ।। अहर्निशं देवपदाब्जभक्ताः । कुटुम्बनिर्वाह* विधानसक्ताः ।।१।। कदाचित्ते शीलचंद्रमुनींद्रादेवमशृण्वन्-विनयफलं शुश्रूषा | गुरुशुश्रूषाफलं श्रुतज्ञानम् ।। * प्रश्नो. * ज्ञानस्य फलं विरति-र्विरतिफलं चाऽऽश्रवनिरोधः ।।१।। संवरफलं तपोबल-मथ तपसो निर्जरा फलं * सटीका * दृष्टम् ।। तस्मात्क्रियानिवृत्तिः । क्रियानिवृत्तेरयोगित्वम् ।।२।। योगनिरोधाद्भवसं-ततिक्षयः संततिक्षयान्मोक्षः।। * ३७९ valeuse www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy