________________
******
इव वृष्टिः पयोमुचः ।।२।। अतस्तद्रूपतां यान्ति । पात्रभेदाद्गुरोर्गिरः ।। इवेक्ष्वह्योः पयःसेकः । पीयूषाय विषाय च ||३|| इत्यादिनिर्वेदपरः क्षीरकदंब : सद्गुरुपार्श्वे दीक्षां कक्षीचकार । नारदोऽपि तदुपास्तिपरः समग्रग्रंथान् पठित्वा स्वस्थानमगात् । अभिचंद्रनरेंद्रोऽपि वसुकुमारे राज्यं न्यस्य श्रामण्यमाश्रयत् । वसुराजोऽपि सत्यवादीत सर्वत्र प्राप्तप्रतिष्ठः सत्यमेवाजल्पत् । एकदा केनचिद्व्याधेन वने भ्रमता मृगमारणाय कोदंडं कुंडलीकृत्य शरो मुमुचे, सोऽप्यंतरा प्रस्खल्य स्थितः, तत्राऽऽगतो लुब्धको बाणस्खलनहेतुं ज्ञातुकामो यावत्करस्पर्शमकरोत्, तावदाकाशविशदस्फटिकशिलामाकलय्य व्यचिन्तयत्-जाने यदस्यां विशद - दीधित्यां प्रतिबिंबितः ॥ परितो हरिणो भ्राम्य-मम दृष्टिपथं गतः ||१|| अतो विना करस्पर्शं । शिलेयं नैव लक्ष्यते ।। तदेषा वसुभूभर्तुः । पार्थमुचिता भवेत् ||२|| ततो व्याधो गत्वा नृपाय तत्स्वरूपं प्रारूपयत् राज्ञाऽपि तस्मै प्रीतिदानं दत्वा समानायि सा शिला, कारिता प्रच्छन्नं तदुपरि स्वासनवेदिका, व्यापादिताश्च तद्वचोऽप्रकटनाय तत्कारकाः, कुतः पातकिनां कृपा? ततो नृपस्तदुपरि सिंहासनं मंडयित्वा प्रत्यहमुपाविशत् क्रमेण ज्ञातं सर्वैरपि यदस्य सत्यप्रभावादासनं निराधारं तिष्ठतीति, अभूच्चास्य संतुष्टा देवताः सान्निध्यं कुर्वन्तीति सर्वत्र प्रसिद्धिः आसंश्च तया प्रसिद्ध्याऽस्य सर्वेऽपि वशवर्तिनो वीशामीशाः ।
अन्यदा तत्रागतो नारदश्छात्राणां पुरस्तादजैर्मेषैर्यष्टव्यमिति स्वमत्या कुव्याख्यां प्ररूपयन्तं पर्वतं प्रत्यूचे-भ्रातर्नैवं त्र्यदकानि । यद्धान्यान्युद्भवन्ति न । इत्यजा गुरुणाऽस्माकं । व्याख्याता न पुनश्छागाः ||१|| पर्वतोऽप्याहस्म-बंधो
प्र. ५७
उ. ६९ स्फटिक
वेदिका
प्रश्नो सटीका ३७६