SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ **********kkkkkkkkkkkk * चेत्यूचे-वत्सा! इतो द्रुतं गत्वा । यत्र कोऽपि न पश्यति ।। तत्रैते कुर्कुटा वध्याः । एत्याख्येयं च मत्पुरः * प्र.५७ * ॥१।। ततो वसुः पर्वतकश्चैकांते गत्वाधुना कोऽपि न पश्यतीति धिया दुष्टौ कमलनालमोटं स्वस्व उ.६९ - कृकवाकुकृकाटिकाममोटयतां । नारदोऽपि ताम्रचूडं गृहीत्वा पुरीबहिः शून्यप्रदेशे गत्वा दिगवलोकन नारदस्य विचारणा । कुर्वन्नेवमध्यासीत्-गुरुर्मामेवमादिक्ष-द्यद्वत्सैष हि कुक्कुटः ।। गत्वा तत्र निहन्तव्यो। यत्र कोऽपि न पश्यति नै ।।१।। तावत्पश्यत्यसौ पूर्वं । पश्चात्पश्याम्यहं तथा ।। देवादयोऽपि पश्यन्ति । ज्ञानिनां तु किमुच्यते? ।।१।। * अतस्तत्किमपि स्थानं । नास्ति यत्र न कश्चन ।। वीक्षते तत्कथमसो । वध्यः किंत्विति वेम्यहम् ।।२।। यत्पूज्यपादा हिंसायां । विमुखाः सर्वदैव हि ।। तदस्मद्धीपरीक्षार्थ-मिदमाचरितं तकेः ।।३।। इति ध्यात्वा । कुक्कुटकरो गृहमागतो नारदः किमित्ययं न हत इति गुरुणोक्तः सर्वं स्वरूपं प्रारूपयत् । अवश्यमसौ * ज्ञाततत्त्वः स्वर्गं यातेति गुरुणा वत्स ! साधु साधु कृतमिति प्रशंसितो नारदो दोऱ्यांमालिलिंगे । वसुपर्वतकावप्येत्य * गुरुं प्रत्यूचतुः-पूज्यपादा इतो गत्वा-ऽऽवाभ्यां तत्र निजो निजः ।। कुक्कुटो निहतो यत्र। न केनापि र निरीक्षितः ।।१।। ततो रुष्टो गुरुराचष्ट-आ: पापो प्रथमं ताव-द्भवद्भ्यामेव वीक्षितौ ।। हन्यमानौ ताम्रचूडौ। पश्चात्तौ त्रिदशादिभिः ।।१।। अतः कथं तौ निहतो । विजनेऽनतभाषिणौ ।। परं मनिगिराऽवैमि श्वभ्रगामिताम् ।।२।। इत्युक्त्वा क्षीरकदम्बः पुनरचिन्तयत्-वसुपर्वतयोर्विद्या-म्यासो मे निःफलोऽजनि || * सटीका - प्रावृषेण्यपयोवाह-स्येव वर्षणमूषरे ।। १।। नारदे पुनरासीन्मे । विद्यान्यासः फलेग्रही।। प्रधानभूमिकाभाग । - ३७५ प्रश्नो. J u calon International For Personal & Private Use Only www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy