SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ kkkkkkkk********* * प्र.५६-कस्मादुद्विजितव्यम्? व्याख्या-हे भगवन्! कस्मादुद्विजितव्यं निर्वेदितव्यम्? इति प्रश्ने शिष्येण * प्र.५६ * कृते गुरुरपि तदनुयाय्यष्टषष्टिमितमुत्तरमाह-संसारारण्यतः सुधिया, व्याख्या-हे वत्स ! सुधिया पंडितेन * उ.६८ * संसारो भवः स एवारण्यमटवी तस्मात्, यत इदमेवापायमूलं, उक्तं च-अहह अपारं संसारा-रण्णयं जस्सा संसाराद् * मज्झयारंमि ।। पडिया नडिया दुक्खेहिं । कहवि पावंति नो पारं ।।१।। अतोऽस्माद्विदुषोद्विजितव्यं, अत्रार्थे ते उद्वेग: कार्यः * मीनकेतननृपकथा, तथाहि* इहैव जंबूद्वीपे द्वीपे भारते वर्षे पद्मिनीखंडनाम नगरं, अतिविकसितनानापद्मिनीखंडमाला प्रभवदतुलगंधप्रीणितघ्राणभाक्त्वात् ।। यदिह वहति सर्वाखर्वपूर्वर्गगर्वा-ऽपहरणकृतिदक्षं सत्यभावं स्वनाम्नः * ।।१।। तत्र मीनकेतनो नाम राजा, अंगं समाश्रित्य भुवस्तलेऽस्मि-नवातरत्किं पुनरप्यनंगः? ।। इत्यद्भुतं यस्य * निरीक्ष्य रूपं । भ्रान्तिं विधत्ते सकलोऽपि लोकः ।।१।। स कदाचित्सभामध्यमध्यासीनो महीनो वनपालाच्छीलंधरगुरोरागमनमाकर्ण्य तूर्णमेव तद्वंदनायागात् । नत्यनन्तरमुचितभूभागोपविष्टः मापप्रष्ठः प्राक्प्रारब्धधर्मदेशनां श्रुत्वा तदंगचंगलक्षणवीक्षणचमत्कृतमना इत्यपृच्छत्-भगवन्! भवतां जज्ञे । को निर्वेदो यदीदृशे वयसि? ।। विहितमयोहरिमंथन-चर्वणकरणं व्रतग्रहणम् ।।१।। गुरवोऽपि जगुः-भूपाल! सुलभा एव। निर्वेदा इह जन्मनि ।। प्रश्नो . तथापि मेऽभूत्संसारा-रण्यं वैराग्यकारणम् ।।१।। अतो निवेद्यते युष्म-दने येन तवाप्यदः ।। संपद्यतेऽन्येथैतस्य । * सटीका कथनं खलु निःफलम् ।।२।। तथाहि-अस्ति माहिष्मती नाम । नगरी श्रीग-रीयसी ।। तत्रासीत् त्रासिताराति- ३७२ JE MEucation International For Personal & Private Use Only www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy