SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ *************** जाज्वल्यमानसर्वांग-श्चेतसीति व्यचिन्तयम् ||३|| किं सत्त्वं मानवेषु स्यात् । कृमिकीटसनाभिषु || स्वैरालापः परं स्वामी । वक्ति तद्रोचते हि यत् ||४|| ततोऽसहिष्णुः स्वर्लोकात् । परीक्षाहेतवे तव ।। समागां संक्रमय्य स्वं । पक्षिद्वयतनाविह || ५ || तव सत्त्ववतो जात्य-स्वर्णस्येव परीक्षणम् ।। मया विदधता सैंद्री । गीः सत्यत्वमनीयत || ६ || तन्मे कृतापराधस्या - ऽपराधः क्षम्यतामयम् ।। यतो न जातु जायन्ते । साधवः क्षुद्रचेतसः ॥७॥ इत्युक्त्वा ससुरः प्रणतिपूर्वमूर्वीशशिरसि पुष्पवृष्टिं कृत्वा यथागतमगात् । भूपोऽपि श्लाध्यमानदयागुणः कदाविदुद्याने समवसृतं तातं श्रीघनरथतीर्थकरं वनपालमुखादवगत्य तन्नत्ये ययौ । भगवानपि समयोचित - मित्युपादिशत्-हे वत्सानादिकालप्रभवदुरुभवाऽभ्यासमूलं विलोल-द्रागद्वेषोच्चशाखोच्चयपरिकलितं दुःकषायप्रशाखम् || संछन्नं भोगपत्रैरसुखसुममयं श्वभ्ररूपैः फलौघैर्व्याकीर्णं छिंधि मोहदुममभिलषसि द्राक् शिवश्रीसुखं चेत् ||१|| इति श्रुत्वा संवेगापन्नो नृपः प्रियमित्रापुत्राय नंदिषेणाय राज्यं, मनोरमातनूजाय श्रीषेणाय यौवराज्यं च दत्वा तातजिनपार्श्वे प्रव्रज्य तीर्थकरकर्मोपार्ज्य च सर्वार्थसिद्धविमानेऽमरोऽजायत । ततश्च्युतः स शांतिजिनीभूय शिवश्रियमशिश्रयत् । इत्थं यथा मेघरथेन राज्ञा । प्राणाऽपहारेऽपि कृपा व्यधायि ॥ तथाऽपरेणापि हि सा विधेया । नमस्कृतिप्राप्तिकृते त्रिलोक्याः ||१|| Qucation Inter ।। इत्याचार्य श्रीदेवेंद्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तौ नमस्कारकारणदयाप्राधान्ये मेघरथनृपकथा ।। नमस्कारकारणदयाप्रधानवैषयिकी मेघरथनृपकथां श्रुत्वा पुनरपि शुश्रूषुः शिष्यः षट्पंचाशत्तमं प्रश्नमाह **** प्र. ५५ उ. ६७ दया नमस्कार्य हेतुः प्रश्नो. सटीका ३७१ www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy