________________
***************
जाज्वल्यमानसर्वांग-श्चेतसीति व्यचिन्तयम् ||३|| किं सत्त्वं मानवेषु स्यात् । कृमिकीटसनाभिषु || स्वैरालापः परं स्वामी । वक्ति तद्रोचते हि यत् ||४|| ततोऽसहिष्णुः स्वर्लोकात् । परीक्षाहेतवे तव ।। समागां संक्रमय्य स्वं । पक्षिद्वयतनाविह || ५ || तव सत्त्ववतो जात्य-स्वर्णस्येव परीक्षणम् ।। मया विदधता सैंद्री । गीः सत्यत्वमनीयत || ६ || तन्मे कृतापराधस्या - ऽपराधः क्षम्यतामयम् ।। यतो न जातु जायन्ते । साधवः क्षुद्रचेतसः ॥७॥ इत्युक्त्वा ससुरः प्रणतिपूर्वमूर्वीशशिरसि पुष्पवृष्टिं कृत्वा यथागतमगात् । भूपोऽपि श्लाध्यमानदयागुणः कदाविदुद्याने समवसृतं तातं श्रीघनरथतीर्थकरं वनपालमुखादवगत्य तन्नत्ये ययौ । भगवानपि समयोचित - मित्युपादिशत्-हे वत्सानादिकालप्रभवदुरुभवाऽभ्यासमूलं विलोल-द्रागद्वेषोच्चशाखोच्चयपरिकलितं दुःकषायप्रशाखम् || संछन्नं भोगपत्रैरसुखसुममयं श्वभ्ररूपैः फलौघैर्व्याकीर्णं छिंधि मोहदुममभिलषसि द्राक् शिवश्रीसुखं चेत् ||१|| इति श्रुत्वा संवेगापन्नो नृपः प्रियमित्रापुत्राय नंदिषेणाय राज्यं, मनोरमातनूजाय श्रीषेणाय यौवराज्यं च दत्वा तातजिनपार्श्वे प्रव्रज्य तीर्थकरकर्मोपार्ज्य च सर्वार्थसिद्धविमानेऽमरोऽजायत । ततश्च्युतः स शांतिजिनीभूय शिवश्रियमशिश्रयत् । इत्थं यथा मेघरथेन राज्ञा । प्राणाऽपहारेऽपि कृपा व्यधायि ॥ तथाऽपरेणापि हि सा विधेया । नमस्कृतिप्राप्तिकृते त्रिलोक्याः ||१||
Qucation Inter
।। इत्याचार्य श्रीदेवेंद्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तौ नमस्कारकारणदयाप्राधान्ये मेघरथनृपकथा ।। नमस्कारकारणदयाप्रधानवैषयिकी मेघरथनृपकथां श्रुत्वा पुनरपि शुश्रूषुः शिष्यः षट्पंचाशत्तमं प्रश्नमाह
****
प्र. ५५ उ. ६७
दया नमस्कार्य
हेतुः
प्रश्नो.
सटीका
३७१ www.jainelibrary.org