SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ दया * वधो मांसादनं तथा ।। प्रथमं नरकपातस्य । श्रीकरग्रहमंडलम् ।।५।। गत्वरस्य शरीरस्य । पोषायाऽऽमिषभक्षणम् ।। * प्र.५५ * विधीयते च यस्तैस्तु । पश्यद्भिः कूपमज्जनम् ।।६।। बुभुक्षाशमनोपाया । वर्तन्तेऽन्येऽपि भूरिशः ।। तत्किं * उ.६७ मेघरथस्य श्वभ्रे मुधा मांसा-दनेनात्मा निपात्यते ।।७।। प्राणिप्राणापहारेण । नरकातिथितां गताः ।। ताड्यन्ते नितरां रौद्रैः। परमाधार्मिकामरैः ।।८।। तदद्यापि निवर्तस्व । वधाज्जीवदयां श्रय ।। यथाऽमुत्रापि तैरश्ची । न जायेत * * गतिस्तव ।।९।। एतत् श्रुत्वा श्येनोऽप्याहस्म-राजन् सुष्ठूदितं किन्तु । क्षुत्क्षामः किं करोम्यहम् ।। यतो * बुभुक्षिता न स्युः । पुण्याऽपुण्यविचारकाः ।।१।। किंचैनं पक्षिणं भक्ष्यं । यथा रक्षसि संप्रति ।। तथा क्षुद्राक्षसीतो मां । रक्ष सन्तो यतः समाः ।।२।। रक्ष्यतेऽड्के निवेश्यैको । मार्यतेऽन्यो बुभुक्षया ।। तदेषाऽभिनवा * काऽपि । तव धर्मस्य चातुरी ।।३।। न च मांसाशिनो जीवा | मोदन्ते मोदकैरपि ।। करभः कंटकाऽऽस्वादी। * * किं मुखं क्षिपतीक्षुषु? ।।४।। यावत् स्वचंचुघातेन । हत्वा नो जीवमम्यहम् ।। तावन्न मे भवेत् तृप्ति-रतो मेऽमुं समर्पय ।।५।। नृपोऽप्येतन्निशम्य व्यमृशत्-यद्यमुं वितराम्यस्य । पक्षिणं शरणागतम् ।। तदा मम * शरण्यत्वं । विलीयते न संशयः ।।१।। यद्वाऽस्मै न ददाम्येनं। तदाऽयं म्रियते खगः ।। किं करोमि द्विधाचेता। * इतो व्याघ्र इतस्तटी ।।२।। यद्वा ज्ञातो मयोपायो । निजांगाऽऽमिषदानतः ।। श्येनस्य तृप्तिः स्यात् प्राण-रक्षा के * पारापतस्य च ।।३।। इति विचिंत्य नृपः स्पष्टमभाषिष्ट-श्येन मांसे स्पृहा चेत्ते । तदा स्वपिशितं तव ।। तुलया * सटीका - तोलयित्वाहं । पारापतसमं ददे ।। १।। श्येनेनापीति प्रतिपन्ने नृपस्तुलाया एकत्रभागे पारापतं द्वितीये तुलाभागे ३६९ प्रश्नो. Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy