________________
********
****
पहारन्यत्कारविगमात् स्वं धन्यं मन्वानः स्वधाम जगाम, सागरोऽपि सत्यतितिक्षोपशांतस्तदुपर्यद्विषंस्तादृशीं दाहव्यथां सहमानो वैमानिकपदमापत् । इति सागरचंद्रवृत्तकं । भविकैः सम्यगवेत्य मानसम् ।। ऋतया क्षमा पवित्रितं । क्रियतां येन जगज्जितं भवेत् ||१||
।। इत्याचार्य श्रीदेवेंद्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तौ जगज्जयनिबंधनसत्यतितिक्षायां सागरचंद्रकथा || जगज्जयनिबंधनसत्यतितिक्षावैषयिकीं सागरचंद्रकथां श्रुत्वा पुनरपि शुश्रूषुः शिष्यः पंचपंचाशत्प्रमितं
प्रश्नमाह
प्र. ५५ - कस्मै नमः सुरैरपि सुतरां क्रियते ? व्याख्या - हे भगवन् ! कृतं तावदपरैर्नरवरादिभिः, किन्तु सुरैरपि कस्मै पुरुषाय सुतरामत्यंतं नमो नमस्कारः क्रियते विधीयते ? इति प्रश्ने शिष्येण कृते गुरुरपि तदनुयायि सप्तषष्टिमितमुत्तरमाह - दयाप्रधानाय, व्याख्या - हे वत्स ! दीयते जीवेभ्योऽभयदानमिति दया करुणा, तया प्रधानाय प्रवराय यतो जगति संकटपतितं प्राणिनं दृष्ट्वा येषां मनस्तदुःखदुःखितं स्यात्ते पंचषा एव, यथोक्तं - शूराः सन्ति सहस्रशः प्रतिपदं विद्याविदोऽनेकशः । सन्ति श्रीपतयो निरस्तधनदास्तेऽपि क्षितौ भूरिशः ।। किंत्वाकर्ण्य निरीक्ष्य वाऽथ मनुजं दुःखाऽर्दितं यन्मन - स्ताद्रूप्यं प्रतिपद्यते जगति ते सत्पुरुषाः पंचषा ||१|| अत्रार्थे मेघरथपार्थिवकथा, तथाहि
.......... इहैव जंबूद्वीपे द्वीपे पूर्वविदेहे पुष्कलावतीविजये पुंडरीकिणी नाम नगरी, या रूपलावण्यरमापराजिता
Only
प्र. ५४
उ. ६६ सागरस्य
सत्यतितिक्षा
प्रश्नो.
सटीका
३६७
www.jainelibrary.org