________________
* वीणाक्षमालापवित्रिकाकमंडलुव्यग्रकरो नारदमहर्षिः । सोऽपि तस्याः कन्याया लाभेन मुदितोऽभ्युत्थानादिकं * प्र.५४ * नारदस्य नाकरोत्, कुतः स्यादभाग्यभाजां विनयः? भणितं च-विणीओ आवहइ सिरिं । लहइ विणीओ जसं *
नारदलीला * च कीत्तिं च ।। न कयावि दुविणीओ । सकज्जसिद्धिं समाणेइ ।।१।। ततः कुपितो नारदो निर्गत्य * * सागरचंद्रगृहमाप, सोऽपि तमभ्युत्थानादिना सत्कृत्यैवमुवाच-जगत्प्रत्यक्षस्वच्छंद-वृत्त्या सर्वत्र भूतले ।। मैं * परिभ्रमद्भिर्युष्माभिः । किमप्याश्चर्यमीक्षितम् ।। १।। ऋषिरप्याख्यत्- कुमार विनयाराम-घनागम! विलोकितम् ।। * * सागरोऽप्याहस्म-मुने! तत्किं समाख्याहि । यत्तदाकर्णनोन्मनाः ।।१।। नारदोऽप्यवदत्-वत्सासतां पराः पुर्यो । *
यदत्रैवाभवत्पुरि ।। परिस्फुरन्महासेनो । धनसेनो धराधिपः ।।१।। तस्यास्ति कमलामेला । पुत्री यद्रूपमीक्षितम् ।। * केषां यूनां मनो हर्ष-प्रकर्षाय न जायते? ।।१।। तन्निशम्य विषमविषमशरशरप्रहारजर्जरांगः सागर इत्यगदत्-मुनींद्र! * * दत्ता किमु कस्यचित्सा? । ऋषिरप्याख्यत्-वत्सोग्रसेनांगभुवे वितीर्णा ।। सागरोऽप्यूचे-प्रभो! कथं तत्सह *
संगमो मे? । नारदोऽप्यवादीत्-कुमार! जानामि न वस्तुवृत्त्या ।।१।। इत्युक्त्वा सद्यो देवर्षिः खमुत्पत्य ययौ - * कमलामेलानिलयं, तयापि सादरं स ऋषिरिति व्यजिज्ञपि-मुनीश! भ्रम्यते विश्व-मपि विश्वं निरंतरम् ।। * तत्प्रसद्य समाख्याहि । दृष्टं किमपि चित्रकृत् ।। १।। नारदोऽप्याहस्म-वत्सेऽत्रैव महापुर्यां । दृष्टं पुरुषयामलम् ।। * * तत्रैकः सुकृती रूप-श्रिया स्मर इवापरः ।।१।। श्रीमान् सागरचंद्राह्वः । कुमारोऽन्यस्तु निर्गुणः ।। साहंकारः *
सटीका कदाकारो । नभःसेनाभिधः कुधीः ।।२।। युग्मम् || तदाकर्ण्य सागरचंद्रेऽनुरक्ता नभःसेने तु विरक्ता सा
प्रश्नो.
For Personal & Private Use Only
www.jainelibrary.org