SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ * पुंडरीककंडरीकयो राज्ययोवराज्ये दत्वा स्वयं संयमराज्यमादाय केवलज्ञानमुत्पाद्य परमपदमाससाद । तावपि - प्र.५३ * राज्यं यौवराज्यं च पालयन्तौ कदाचित्पुनरुपेतानां तेषामेवाचार्याणां वंदनाय गतो तद्वचनामृतमाकंठमपिबताम् । * उ.६५ कंडरीक ततः प्रबुद्धः पुंडरीकः कंडरीकमूचे-वत्स! क्रमागतमिदं । राज्यं त्वं परिपालय ।। अहं संयमराज्यश्री-पालनायोन्मनाः . कथा पुनः ।।१।। तदाकर्ण्य कंडरीकोऽप्यवादीत्-भ्रातर्युक्तं त्वया प्रोक्तं किन्तु संप्रति मे मनः ।। भवोद्विग्नं - * तदादातु-मनुमन्यस्व मां व्रतम् ।।१।। पुंडरीकोऽप्यूचे-वत्सायश्चणका यद्वत् । परिचर्वितुमक्षमाः ।। वोढुं न * * शक्यः स्यात्पंच-महाव्रतभरस्तथा ।। १।। उक्तं च-सदाऽस्मिन्न स्नानं शयनमवनौ भेक्ष्यमशनम् । न योषित्संपर्को न च खलु ममत्वं क्वचिदपि ।। करैः केशोद्धारो गुरुकुलनिवासो व्रतविधि-बुभुक्षोदन्यानां सहनमसकृत्तन्न * सुकरः ।।१।। तत्तस्येदृक्स्वरूपं त्वं । विचार्य स्वीयचेतसि ।। यद्भवेदुचितं तद्बा-क्कुर्याः किं बहुजल्पनैः? * * ॥२।। कंडरीकोऽप्यब्रवीत्-भ्रातः कातरवत्किं मां । त्वं भापयसि संयमे ।। यतः कक्षीकृतं कृत्यं । न त्यजन्ति * र हितैषिणः ।।१।। इत्युक्त्वा कंडरीको गुरुपादान्ते प्राव्रजत् । पुंडरीकनृपस्तु गुरून्नत्वा प्रासादमासाद्य भावयतीभूय - * राज्यमन्वशात् । कंडरीकमुनिरपि शिक्षितोभयशिक्षस्तपस्तप्यमानो गुरुभिः सह विहरन् कियत्कालमत्यवाहयत्। * * अन्यदा प्रफुल्लाष्टादशभारवनस्पती वसंतसमये तपःकृशोऽपि कंडरीकश्चारित्राऽऽवरणोदयाद्विषयेच्छुः पुंडरीकिण्याः * * पुर्याः नलिनीवनोद्याने समेत्य शाखिशाखायां पात्राद्युपकरणं निवेश्य महिषं इव शाड्वले भूतले लोलुठन् * सटीका * वनपालेन पुंडरीकाय स्वमजिज्ञपत् । पुंडरीकोऽपि तत्रैत्य तथास्वरूपं कंडरीकं व्यालोक्य विषादानन्दसंकीर्णांतःकरणः * ३६० प्रश्नो . Personal & Private Use Only inww.sanelbrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy