________________
*kkkkkkkkkkk***********
* ननु सद्वृत्तमवश्यपूज्यकृच्च ।।१।। .
प्र.५३ ॥ इत्याचार्यश्रीदेवेंद्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तौ पूजानिबंधनसद्वृत्ते मकरकेतुनृपकथा ।।
उ.६५ पूजामिबंधनसद्वृत्तवैषयिकी मकरकेतुनृ-पकथां निशम्य पुनरपि शुश्रूषुः शिष्यस्त्रिपंचाशत्तमं प्रश्नमाह- कन्यायक्षीर
सागरो भूप प्र.५३-कमधममाचक्षते? व्याख्या-हे भगवन् ! कमधमं नीचमाचक्षते ब्रुवते? इति शिष्यकृते प्रश्ने * गुरुरपि तदनुयायि पंचषष्टिसंख्यमुत्तरमाह-चलितवृत्तं, व्याख्या-हे वत्स ! चलितवृत्तं भ्रष्टसदाचार, यतः * स्वीकृतसत्कृत्यपरिहारादधम एव, उक्तं च-अंगीकृतसदाचार-परिहारवशान्नरः ।। गुणोदययुतोऽपि स्या-दपमानेक+ भाजनम् ।।१।। अत्रार्थे कंडरीककथा, तथाहि
इहैव जंबूद्वीपे द्वीपे महाविदेहे पुष्कलावतीविजये पुंडरीकिणी नाम नगरी, यत्र सौख्यबहुलः किल * कालो । दुःखमासुखमसंज्ञक एव ।। देहिनोऽपि शरचापशतोच्चाः । पूर्वकोटिमितजीवितभाजः ।।१।। तत्र * महापद्मो नाम राजा, तस्य पद्मावती नाम राज्ञी, तयोः पुंडरीककंडरीकनामानौ नंदनाविति कुटुंबं वसतिस्म ।
हर्षप्रकर्षभरनिर्भरनम्रकम्र-गीर्वाणराजपरिपूज्यजिनोदितेषु ।। धर्येषु कृत्यनिवहेषु सदोद्यतं य-त्कालं * विशालमतिवाहयतिस्म कामम् ।।१।। अन्यदा नलिनोपवनमागतानां केषांचिद्गुणभूरीणां सूरीणां वंदनाय र प्रश्नो. * गतः सपरिजनः माजानिरिमां देशनामशृणोत्-भो भो भव्या बंभ्रमन्तो भवन्तः । संसाराब्धौ चुल्लकाद्यैः + सटीका * प्रबंधैः ।। लब्ध्वा मर्त्यत्वं कथंचिच्छ्रयध्वं । तत्याराप्त्यै जैनचारित्रपोतम् ।।१।। तदाकर्ण्य रंगद्वैराग्यो राजा * ३५९
For Personal & Private Use Only
www.jainelibrary.org