________________
प्र.५२ उ.६४
राज्ञः सवृत्तपालनम्
* किं कर्णे ध्रियते हस्ती । भ्रमन् केनाप्यनध्वनि ।।२।। किं बहूक्तेन चेत्स्वस्य । कुशलं त्वं समीहसे? || * * तदेतत्कन्यकारत्नं । नृरत्नायोपदीकुरु ।।३।। इत्युक्त्वा तस्मिन् गतेऽमात्यः स्वयमेव प्रांजलिरिलापालं * * व्यजिज्ञपत्-स्वामिन्नहं ममौकः श्रीर्जीवितव्यं परिच्छदः ।। अन्यच्चापि हि यत्किंचि-तत्सर्वं त्वद्वशंवदम् ।।१।। * किन्तु विज्ञप्तिकामेकां । कृपां कृत्वाऽवधारय ।। यदेकवेलं दत्तायाः । कन्यायाः पुनरर्पणम् ।।२।। भवेन्महाऽपवादाय । * तन्न्यायक्षीरसागर! || यथोचितं समालोच्य यच्छाज्ञां मयि किंकरे ।।३।। इत्याकर्ण्य विगलन्मारविकारः के * मापतिरित्यचिन्तयत्-अहो मन्त्री सदाचारो-ऽसदाचारोऽस्म्यहं पुनः ।। यदेवं कथयांचक्रे । परमार्थमजानता है
।१।। धन्यास्ते ये न नारीषु । रक्ता रूपवतीष्वपि ।। अहं त्वधन्यो यद्भोगान् । रोगानिव समाश्रये ।।२।। * तदतः परमेतैर्हि । कालकूटविषैरिव ।। प्राणिनां प्राणसर्वस्वा-ऽपहारप्रगुणैरलम् ।।३।। इति ध्यात्वा नृपो * * वैराग्यरंगितमना एवमवादीत्-मंत्रिन् मे मारगरलं । तव वाक्सुधया गतम् ।। मुदं धेहि गृहं याहि । विधेहि
स्वमभीप्सितम् ।।१।। अत्रान्तरे काचित्कार्यवशान्नभसि यान्ती तत्सद्वृत्तरंजिता सुरीत्यूचे-राजंस्त्वमेव धन्योऽसि।
वर्णनीयोऽसि यस्य ते ।। स्वांतं स्वर्गापवर्गक-मूले सद्वृत्तपालने ।।१।। इति त्रिरुच्चार्य नृपवर्यमूर्धनि कुसुम-* * वृष्टिं विधाय देव्यां स्वकृत्याय गतायां मंत्री धात्रीपतिसवृत्तचमत्कृतः पुत्र्याः श्रीदत्तेन सह विवाहमकारयत्। * * विशामीशोऽपि सद्वृत्तगुणेन सर्वत्र जायमानपूजोपचारश्चंद्रशेखरं सुतं स्वराज्ये न्यस्य स्वयं गुरुपादांतोपात्तव्रतः * में स्वर्गमसाधयत् । इति मकरपदाग्रकेतुभूमी-पतिचरितं श्रवणान्तिकं प्रणीय ।। भुवि भविकजनास्तनुध्वमेकं । म
प्रश्नो . सटीका ३५८
For Personal & Private Use Only
www.jainelibrary.org