________________
* मृदुस्वरेणैवं शिक्षितः-न ज्ञायते वत्स कदापि दैवा-द्विपत्समायात्यतिदुस्तरा ते ।। तदा तदुच्छित्तिकृते स्वचेतों- * प्र.५१ * तरे स्मरेः पंचनमस्कृतिं त्वम् ।।१।। शिवोऽपीति पितुर्गिरं कथमप्युररीचक्रे । श्रेष्ठ्यपि सदाराधनया विपद्य - उ.६३ दिवमवाप, ततः शिवः कैतवैः सह क्रीडन् सर्वमपि धनं निधनमनयत् । तद्विना तु स्थानमानसं
धनार्थ
किं न में भाषणाद्यप्राप्नुवन्नित्यचिन्तयत्-वरं वनं व्याघ्रगजेन्द्रसेवितं । द्रुमाऽऽलये पुष्पफलाम्बु भोजनम् ।। तृणेषु ।
तृण के क्रियते? * शय्या वरजीर्णवल्कलम् । न बंधुमध्ये धनहीनजीवितम् ।।१।। इति ध्यायन् शिवो नगरान्निरगात्, * * प्राप्तस्तत्परिसरमंडनायमानमुद्यानं, ददर्श तत्रैकं निषण्णं त्रिदंडिनं, गतस्तत्यार्श्व, उपाविशच्च नतिपूर्वम् ।
सोऽपि पाखंडी तं निःश्रीकमालोक्य कृपालुरिवेत्यालपत्-वत्स! त्वं हेतुना केन । विलक्ष इव वीक्ष्यसे? || * शिवोऽप्यवोचत्-स्वामिन्न मेऽस्ति संतोष-पोषदायी धनोदयः ।।१।। कापालिकोऽप्यवादीत्-भद्राऽऽकर्णय मे है
वाक्य-मेकमंगीकरोषि चेत् ।। तदा ते गृहदासीव । पद्मा सद्म न मुञ्चति ।।१।। शिवोऽप्यभ्यधात्-प्रभो! * + यदादिशसि त-त्करोम्येव न संशयः ।। यतो धनैषिणा पुंसा । तत्किं यन्न विधीयते? ।।१।। यदुक्तं यद्
दर्गामटवीमटन्ति विकट क्रामन्ति देशांतरम् । गाहन्ते गहनं पयोधिमतनुक्लेशां कृषि कुर्वते ।। सेवन्ते कृपणं पतिं गजघटासंघदःसंचरम । सर्पन्ति प्रधनं धनांधितधियस्तल्लोभविस्फर्जितम ।।१।। योग्यपि जगौ-यद्येवं
प्रश्नो. * वत्स! तर्हि त्वं । क्वापि पश्याक्षतं शवम् ।। यथा कृष्णचतुर्दश्यां । साध्यसिद्धिर्विधीयते ।।१।। ततः शिवः +
सटीका क्वापि तरो तदेवोद्बद्धं शवं दृष्ट्वा त्रिदंड्यग्रे न्यवेदयत् । योग्यपि कृष्णचतुर्दशीनिशि शिवपात्तिं शवमानाय्य - ३५४
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org