________________
**********
।। ३ ।। भणितं च-जह मूसयस्स इक्केण विहिणा दो वि वावडा हत्था ! तह अमुणियकल्लाणा थोवेणवि उत्तणाहुति ||9|| एवं दिने दिने द्वारं दत्वा गर्वस्यात्मानमयच्छन्तीं चित्रकृत्सुतां प्रेक्ष्य तत्सपत्न्यो राज्ञोऽग्रे व्यज्ञपयन्–स्वामिन्नात्मा भृशं रक्ष्यः । पटुकूटा यतः स्त्रियः || विशिष्य नीचजातीय युवतीनां किमुच्यते? ।।१।। अतो विश्वसितव्यं नो । ह्यमुष्यां चित्रकृद्भुवि ।। यतः किंचिद्रहस्येषा । कार्मणं कुरुतेऽन्वहम् ||२|| राजापि तत् श्रुत्वाऽचिन्तयत् - आसां तदुपरि द्वेषः । सपत्नीभावसंभवः ।। अतो धीमान् श्रुतग्राही । भवेन्नैव कदाचन ।।१।। यदुक्तं-मा होह सुयग्गाही । मा पत्तिय जं न दिट्ठिपच्चरक्खं । पच्चक्खंमि य दिट्ठे | जुत्ताजुत्तं वियारिज्जा ।।१।। तदस्याश्चित्रकृत्पुत्र्याः । स्वरूपं सर्वमप्यहम् || वंचयित्वात्मनो दृष्टिं । पश्यामि वा शृणोमि वा ||१|| इति ध्यात्वा प्रच्छन्नीभूय भूपश्चित्रकृद्भुवस्तादृक्स्वरूपं दृष्ट्वा चमत्कृतः सर्वराज्ञीषु तां पट्टराज्ञीं चकार । इति चित्रकरस्य पुत्रिकाया- श्चरितं चित्रकरं निशम्य भव्याः ।। न कदापि मदस्य यच्छत स्वं । यदि वः सौख्यपरंपराभिलाषः ||१||
॥ इत्याचार्य श्रीदेवेंद्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तौ गर्वस्यात्या नो देय इति विषये चित्रकरदारिकाकथा || पुनरपि तस्मिन्नेवैकपंचाशत्संख्ये शिष्यकृते प्रश्ने गुरुस्तदनुयायि त्रिषष्टितममुत्तरमाह - तथा कृतघ्नस्य, व्याख्या- हे वत्स ! न केवलं गर्वस्यात्मा न समर्प्यः, किन्तु तथा तेनैव प्रकारेण कृतघ्नस्यापि कृतमुपकारादिकं हन्तीति कृतघ्नः । उक्तं च- चिरमाराधितोऽप्यन्ना - दिभिः संतोषितोऽपि च ।। कृष्णाहिरिव कस्यापि ।
For Personal & Private Use Only
प्र. ५१
उ.६२
राज्ञः
संतोष:
प्रश्नो.
टीका
३५२
y.org