________________
* तेनापि सुहस्त्युक्तधर्मानुवादेन कुटुंबं प्रबोधयता तदल्पबुद्धित्वाद्धर्माचार्य विना तन्न बुद्धम् । ततो वसुभूतिः * प्र.३ * सुहस्तिनमाह-भगवन् विविधोपायै-रपि बोधयितुं न हि ।। परिवारमलं तत्त्वं । प्रबोधयितुमर्हसि ।।१।। सुहस्त्यपि * पुनरप्यकरणेन * दध्यौ-एकोऽपि बोधितो जीवो-ऽगण्यपुण्याय जायते ।। अनेकेषां तु जीवानां । प्रबोधस्य तु का कथा ।।१।।
क्षमापना * यदुक्तमुपदेशमालायां-सयलंमिवि जियलोए । तेण इहं घोसिओ अमाघाओ । इक्कंपि जो दुहत्तं । सत्तं बोहेइ रे * जिणवयणे ।।१।। ततः सुहस्ती तेनैव सह तत्स्वजनप्रबोधाय तद्गृहमेत्य सुधासमानां देशनां यावदकरोत्ताव-* तद्भगवान्महागिरिर्भिक्षार्थं तद्गृहं प्रविष्टो दृष्टः । सुहस्तिना संभ्रमवशादासनादुत्थाय च वंदितः । तदीदृग्स्वरूपं * दृष्ट्वा श्रेष्ठ्याहस्म-भगवन् विद्यते कोऽपि । भवतामपि किं गुरुः ।। यदेवं वंद्यते पूज्य-पादैरयमुपागतः ।।१।। * सुहस्त्यप्यूचे-श्रेष्ठिन् ! सदैवापि समुज्झ्यमानाऽशनाधुपादाननिबद्धबुद्धिः ।। गुरुर्मदीयोऽयमतोऽस्य पापा-पकारि के
पादाब्जरजोऽपि वन्द्यम् ।।२।। (निबद्धकक्षाः । एतेऽस्मदीया गुरवस्तदेषामघापहाधिरजोऽपि वन्द्यम् ।। पाठा.) इत्थं महागिरिम-*
भिष्टुत्य श्रेष्ठिकुटुंबं प्रबोध्य सुहस्ती प्रतिश्रयमयात् । श्रेष्ठ्यपि स्वजनानित्यूचे-यदैति भिक्षार्थमयं महर्षि-स्तदोज्झ्यमानं ) * ह्यशनाद्यमुष्मै ।। प्रदर्श्य देयं यत एतदात्तं । तद्वो भवेन्मुक्तिलताफलाय ।।१।। प्रपेदे परिजनोऽपि तद्वचः, आगाद् है द्वितीयेऽहन्यपि तथैव महागिरिः । तैरप्यायान्तं भगवन्तं वीक्ष्य तथैव कर्तमारेभे । भगवानप्यपयोगेन तदः
प्रश्नो. बुद्ध्वानादाय वसतिमेत्य च सुहस्तिनमुवाच-वत्स ह्यो मम विनयं । वितन्वतानेषणा कृता महती ।। यस्मान्मह्यं ।
सटीका * भिक्षा-मसूत्रयंस्त्वदुपदेशात्ते ।।१।। इत्याकर्ण्य पुनरप्यकरणेन क्षितितलमिलन्मौलिः सुहस्ती महागिरिं क्षमयामास । रे
॥२७॥
ducation International
For Personal & Private Use Only
www.jainelibrary.org