________________
महोदय श्रीरथ निर्विकारं । चकार यं वल्लभमेकमेव ॥२॥ तच्छिष्यः प्रभवो नाम स्वामी, गुरोर्गिरा यः खलु चौर्यचर्यां । तथा च तातेन वितीर्यमाणम् । राज्यं परित्यज्य गुणाभिरामं । श्रामण्यचिंतामणिमंग्यकार्षीत् ॥३॥ तच्छिष्यः शय्यंभवो नाम स्वामी, अहो महाकष्टमहो हि मौढ्यं । तत्त्वं तु जानाति जनो न जातु ॥ इति क्षमाभृद्वचनश्रवाद्यो । यज्ञादि मुक्त्वा चरणं चचार ||४|| तच्छिष्यो यशोभद्रो नाम स्वामी, यथा न मानं जलधौ जलानां । न तारकाणां प्रमितिर्यथा खे || शक्या विधातुं प्रतिभावतापि । तथा न यस्मिन् गणना गुणानाम् ||५|| तच्छिष्य संभूतिविजयभद्रबाहुनामानौ स्वामिनौ, परमतरिपुकरिकरट-स्थलविघटनविकटमृगपतिसदृक्षौ || शरणागतजनरक्षण - विचक्षणौ बलहरी इव यौ || ६ || संभूतिविजयशिष्यः स्थूलभद्रो नाम स्वामी, तादृक्कोशाकटाक्षेष्वभिदुरविलसच्छीलवर्मन् प्रभो प्रा-गार्द्रादीनां मुनीनामपि जयविधिना सापराधेऽपि बाढम् ॥ अस्मत्कांते प्रसत्तिं कुरु विततरां प्राणभिक्षामिदानीं । नैवं भूयो विधाता स इति रतिगिरो यत्र जाताः कृपार्द्राः ॥ ७॥ तच्छिष्यौ चार्यमहागिर्यार्यसुहस्तिनामानौ स्वामिनी, आबाल्यादपि यक्षाऽऽर्यया जनन्येव पालितावेतौ ।। इत्यार्यपूर्वमभिधाऽभवत्तयोर्विश्वविख्याता ||८|| तौ भगवंतौ सदैवाऽर्हच्छासनं प्रभावयंतौ भव्यान् प्रबोधयंतौ शैक्षांश्च पाठयंतौ महीं विहरतः स्म । एकदार्यमहागिरिरार्यसुहस्तिनि स्वगणं न्यस्य जिनकल्पव्युच्छित्तिं जानन्नपि गच्छनिश्रास्थितोऽर्हत्कल्पार्हया वृत्त्या विजहार । आर्यसुहस्ती तु स्थविरकल्पेन व्यवहरत् । अन्यदा जिनकल्पस्थविरकल्पयोर्मूर्ती पुंजाविव तौ विहरंतौ पाटलीपुरमयासिष्टाम् । तदा सुहस्तिना प्रबोधितो मिथ्यादृग्वसुभूतिर्नामा श्रेष्ठी सम्यग्दृष्टिरजनिष्ट ।
For Personal & Private Use Only
प्र. ३
आर्यमहागिरे
रहत्कल्पार्हयाविहारः
प्रश्नो
सटीका
॥२६॥
www.jainelibrary.org