SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ * तस्या भवांधगाया । इव भव्यमनुष्यवत्।। तयोर्निर्गतयोर्दैवा-देक एवमवोचत ।।१७।। भो भद्राद्यतनं तुर्यं । * प्र.५१ * दिवसं नात्र संशयः ।। तदेणाक्षि समाख्याहि । कथं वेत्ति तस्करः? ।।१८।। चेट्यप्यभाषिष्ट-स्वामिन्यस्मादृशां * उ.६२ तस्कर मूर्ख-शेखरीणामगोचरः ।। अयमर्थस्तदत्यर्थं । त्वमेव विनिवेदय ।।१।। राज्यप्याहस्म-सखि! मध्यंदिने नेवा-द्य * कथा * सुप्तं तेन हेतुना ।। सांद्रनिद्रे दृशौ तस्मा-तत्वं श्वः कथयिष्यते ।।१।। इति वचोऽनन्तरमेवास्वपच्चित्रकरात्मजा, * अहो पुरः किमुत्तरं भावि? इति चिन्तयतो ह्रिया चाऽपृच्छतो नृपतेरप्यागता निद्रा, पुनस्तदाकर्णनोत्कंठितेन * * राज्ञा चतुर्थेऽपि दिवसे वारके वितीर्णे पुनरपि चेट्या प्रोचे-रंभोरु! स कथं चौर-स्तुरीयं ज्ञातवानहः ।। * तदिदानीं मयि कृपां । कृत्वा मंक्षु निवेदय ।।१।। राजप्रियाप्याहस्म-वयस्ये तस्य चौरस्या-म्येति चातुर्थिको र * ज्वरः ।। तेन स ख्यापयामास। चतुर्थदिननिर्णयम् ।।१।। स्फुटं स्फुटितः स्फोटको निर्व्यथीभवतीति पुनर्दासी * * स्माह-देव्यन्यमपि मे ब्रूहि । दृष्टान्तं विस्मयावहम् ।। पठनश्रवणाद्यैर्हि । कालो याति विपश्चिताम् ।।१।। * - यदुक्तं-गीतशास्त्रविनोदेन । कालो गच्छति धीमताम् || व्यसनेन हि मूर्खाणां । निद्रया कलहेन च ।।१।। * अनंगसुंदर्यप्यगदत्-यद्येवं सखि तर्हि त्वं । शृणु क्वापि पुरेऽजनि ।। कोऽपि राट् तस्य लावण्या-वज्ञातस्वर्वधूः . * सुता ।।१।। सान्यदा कारितस्फार-सर्वांगीणविभूषणा ।। जनन्या प्रेषिता तात-पादवंदनहेतवे ।।२। राज्ञापि के * यावद्वात्सल्या-न्निजोत्संगे न्यवेशि सा ।। तावन्नभसि यान् कश्चित्। खेचरस्तमपाहरत् ।।३।। नृपोऽथ खेदादेवज्ञो। * सटीका * रथकारस्तथा भटः ।। वेद्योऽपि चेति पुंरत्न-चतुष्कं प्रत्यभाषत ।।४।। भो भो यो भवतां मध्ये । प्रत्याहरति ३४९ प्रश्नो . alon International Personal & Private Use Only www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy