________________
प्रपन्नोऽनशनं यस्तु । तस्मै दत्ता न संशयः || २ || तत् श्रुत्वा पुनर्दासी स्माह - स्वामिन्यन्योऽपि सरसो । दृष्टान्तः कोऽपि कथ्यताम् ।। यतो भवन्ति विद्वांसः । सत्कथाऽऽकर्णनप्रियाः ||१|| चित्रकृत्पुत्र्यप्यवोचत्सखि ! क्वचित्पुरे भूपा - देशाद् भूमिगृहांतरे ।। रत्नांशुलसदुद्योते । ह्यनिर्यातौ बहिः पुनः ||१|| स्वर्णकारावलंकारा-नवरोधवधूकृते ।। अज्ञाताहोनिट्स्वरूपा - वुभौ घटयतः सदा ||२|| युग्मम् ।। तन्मध्यादभ्यधादेकः | कीदृशः समयोऽधुना ।। द्वितीयोऽप्यवदद्भद्र ! वर्तते सांप्रतं निशा ||३|| तत् श्रुत्वा दास्यप्यगदत् - हे देवि सततोद्योत–मये स्थाने स्थितः कथम् ? ।। स वेत्ति रात्रिं यो नेंदु - सूर्ययोर्बिबमीक्षते ||१|| अनंगसुंदर्यपि जगौ-सख्यद्य पीतमधिकं । दधि सुस्वादु तेन मे || विलोचनयुगं निद्रा - भावं भजति संप्रति ।।१।। इत्युक्त्वा सास्वपत् । अहो ! कथमियं सरसां कथां वेत्ति ? इति ध्यायतो भूधवस्याप्यागान्निद्रा, किमग्रे भविष्यति ? इति धिया तृतीयेऽपि दिने नृपेण वारके दत्ते चेट्या प्रोक्तं - स्वामिन्यग्रे वदात्यन्तं । ममास्ति कौतुकं महत् ।। अनंगसुंदर्यप्यवादीत्–हे हले स हि रात्र्यंध - स्तेन जानाति यामिनीम् ||१|| भिन्ने कुहेटके वराटिका मूल्यमिति दासी पुनरुवाच-वद देव्यपरां कांचि - दतीवसरसां कथाम् ।। एतदर्थे मयात्यर्थं । योजितोंजलिसंपुटः ||१|| राज्ञ्यप्यलपत्-पुरे क्वचिदुभौ चौरौ । चोरिकाचारचंचुरी । वसन्तावन्यदा चित्ते । चिन्तयामासतुस्तराम् ||१|| यत्कस्यापि महेभ्यस्य । प्रविशावोऽद्य वेश्मनि । यथा घनं धनं लात्वा । विलसावो निरन्तरम् ||२|| ध्यात्वेति निशि तद्धाम । तौ प्रविष्टावपश्यताम् ।। गृहादिलेखं कुर्वाणौ । पितापुत्रौ परस्परम् || ३ ||
For Personal & Private Use Only
प्र. ५१
उ. ६२ सत्कथाSS कर्णनप्रिया विद्वांसः
प्रश्नो.
सटीका
३४७ ainelibrary.org