________________
*米米米米盂
*米****
I
।।१।। अतो मां भगवानग्नि-र्विप्रयोगप्रतापितम् ।। निर्वापयत्वितीवाग्नौ । स विवेश तया सह ||२|| द्वितीयोऽनशनं भेजे-तरां तद्विरहासहः ।। तृतीयस्तु सुधीरेवं । निजचेतस्यचिन्तयत् ||३|| दैव दैवमिति प्राहुः प्रायः पौरुषवर्जिताः ।। पौरुषिणां तु शक्ताना - मसाध्यं नास्ति किंचन ||४|| ततः स साधयामास । देवतां भक्तिपूर्वकम् ।। तयापि तुष्टया 'तस्मै । मन्त्रः संजीवनोऽर्पितः ||५|| मंत्रस्याऽचित्यमाहात्म्या- त्स तांस्त्रीनपि संमृतान् ।। अजीवयद्यथांभोदो । दवदग्धतरांस्तरून् || ६ || ततश्चाद्योऽब्रवीदेवं । मयकाकारि दुष्करम् ।। प्राविशतया साकं । प्रज्ज्वलज्ज्वलनान्तरम् ||७|| द्वितीयः स्माह किमिदं । दुष्करं दुष्करं त्विदं । यत्तदर्थं मयाहार–परीहारो विनिर्ममे ||८|| तृतीयस्तूचिवानेवं । व्यर्थोऽयं युवयोः श्रमः || यतः सा च भवन्तौ च | मृताः प्रोज्जीविता मया ||९|| तत्सोममुखि सा चैका । कन्या ते तु त्रयो वराः । मिथो जिघृक्षवोऽतः सा । कस्मै देति मे वद? ||१०|| चेट्यप्यूचे - स्वामिन्यहं न जानामि । जानाति स्वामिनी पुनः । तत्प्रसद्य समाख्याहि । तन्मध्ये कस्य साऽर्पिता ? ||११|| चित्रकरदारिकाऽप्यवादीत् - सखि ! संप्रति मे निद्रा- घूर्णमाने नाग् दृशौ ।। तत्सुप्यतेऽधुना कल्ये । कथयिष्याम्यसंशयम् ||१|| तत्कथाकर्णनोत्कंठितमनसा विशांपतिना द्वितीयेऽप्यह्नि तस्या एव वारके दत्ते चेटी पुनरूचे- हे देवि ! कथ्यतामर्द्ध-कथिता कथिका मम ।। यतस्तत्श्रवणेऽत्यन्तं । चेतस्यस्ति कुतूहलम् ||१|| अनंगसुंदर्यप्यवोचत् सखि ! तत्र पुरे राज्ञोऽमात्यैरिति विचारितम् ।। येन सा जीविता सोऽस्याः । कन्याया जनकः स्फुटम् ||१|| येन साकं समुत्पन्ना । सा सोऽवश्यं सहोदरः ।।
1
For Personal & Private Use Only
Jain Education International
प्र. ५१
उ.६२
मनोविनोदाय कथाकथनम्
प्रश्नो सटीका
३४६
www.jainelibrary.org