________________
* राजापि तं बहुदर्शिनमवगत्येत्यभाषत-भूदेवाऽन्यनृदेवानां । राज्यात् कस्यापि वस्तुनः ।। न्यूनता मम राज्ये- * प्र.५१
ऽस्ति । तत्त्वं वेगान्निवेदय ।।१।। तदाकर्ण्य वैदग्ध्यगणरत्नरत्नाकरः सोऽपि व्यजिज्ञपत-राजन सामन्तमंत्र्यादि उ.६२ -जनवंद्यपदाम्बुज! ।। आकर्णयैकाग्रमना । आसतामपरे नृपाः ।।१।। इंद्रस्याप्येक एवोच्चैः-श्रवा अश्वस्तथा / चित्रसभागजः ।। ऐरावणस्तवानेके । वाजिनो दन्तिनोऽपि च ।।२।। हरस्याप्येक एवोक्षा । लक्षशो वृषभास्तव || के
भावकथनम् * मुरारेरपि चैवैका । श्रीः श्रियस्तव भूरिशः ।।३।। सुपर्वपर्वतेऽप्युच्चैः । पंचैव हि सुरद्रुमाः ।। सहस्रशस्तवो- *
द्याने । फलदाः फलदायिनः ।।४।। द्वे एव कान्ते पंचेषो-रपि ते प्रचुराः प्रियाः ।। एकैव कामधेनुः स्व-र्गावस्तव तु कोटिशः ||५|| राजाप्येतत् श्रुत्वा सेर्प्य इवाहस्म-बटो! कदापि हि स्वीयां । श्लाघां तव सकाशतः ।। न कारयामि संत्यन्ये । शतशस्तत्करा नराः ||१|| परं यदर्थं पृष्टोऽसि । तदेव वद मत्यूरः ।। किमेवं बहधालापे-र्विलापैरिव दुःखदैः ।।२।। बटरप्यभाषिष्ट-राजंस्तदर्थमेवेयं । कृता वचनचातरी ।। यतो न जात
चिद्विज्ञा । भवन्ति स्वैरभाषिणः ।।१।। तत्ते समग्रं राज्येऽस्ति । किन्तु चित्रसभा न हि ।। यया समनुरज्यंते। * हृदयानि सभासदाम् ।।२।। ततः समजनि रंजितो राजा, उक्तं च-अणुणयकुसलं परि-हासपेसलं लडहवाणि* दुल्ललियं ।। आलवणं बिहु छेयाण-कम्मणं किंच मूलीहिं ।।१।।
प्रश्नो . * इतश्च बटुं श्लाघापूर्वकं सत्कृत्य तत्कालमेव क्ष्मापालश्चित्रकरानाकार्य चित्रार्थं सभाभित्तीविभज्य तेभ्योऽदात्।
सटीका * तेऽपि सभाभित्तीश्चित्रयितुमारेभिरे, अत्रांतरे निःस्वस्यैकाकिनो वृद्धस्य चित्रांगदाख्यस्य चित्रकृतोऽनंगसुंदरीव ३४३
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org