________________
* श्रेष्ठ्यपि तादृग्दिव्यालंकारभासुरं सुरं वीक्ष्येत्याचष्ट-अनादिकालतो जैने । धर्मे प्राप्ते सुदुर्लभे ।। किं नावाप्तं * प्र.५१ * मया देवा-तो नेच्छा प्रवरे वरे ।। १।। ततस्तं निरीहशेखरं मत्वा तन्मूर्ध्नि पुष्पवृष्टिं तद्गृहे स्वर्णवृष्टिं च कृत्वा उ.६२ * स सुरः स्वर्गमगात् । भविककुटुंबमपि विषादरहितं सुकृतं प्रपाल्य क्रमात् सुगतिमगात् । इत्थं भविककुंटुंबचरित्रं । न गर्वेऽकार्ये
चित्रकार * श्रुत्वा भव्यजना अतिचित्रम् ।। आत्मा नैव समर्यः शोके । यदि वो वांछा सौख्येऽस्तोके ।।१।।
*दारिकाकथा ॥ इत्याचार्यश्रीदेवेंद्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तौ विषादस्यात्मा नो देय इति विषये भविककुटुंबकथा ।।
पुनरपि तस्मिन्नेवैकपंचाशत्संख्ये शिष्यकृते प्रश्ने गुरुस्तदनुयायि तृतीयं द्वाषष्टिमितमुत्तरमाह-गर्वस्य, * व्याख्या-हे वत्स ! केवलं विषादस्यात्मा न समर्प्यः, किन्तु गर्वस्याप्यहंकारस्यापि, यतः स्याद्गायात्मा दत्तो के * गुणापगमाय, उक्तं च-अहंकारे समुत्पन्ने। वदत्येवं गुणावली ।। अहं कारे भविष्यामि । समायाता त्वदन्तिकम् * ।।१।। अतोऽस्य नात्मा देयः, अत्रार्थे चित्रकरदारिकाकथा, तथाहि
इहैव जंबूद्वीपे द्वीपे भारते वर्षे वसन्तपुरं नाम नगरं, यत्र फुल्लकमलाः सरोवरा। यत्र पत्रफलपुष्पदा * द्रुमाः ।। यत्र देववनितोपमाः स्त्रियो । यत्र चित्रकृतविस्मया गृहाः ।।१।। तत्र शत्रुमर्दनो नाम राजा, * * यस्मिन्नयैककलया । पालयति क्षितिराज्यम् ।। समयं गमयन्तिस्म-तमां लोकाः सौख्यं प्राज्यम् ।।१।। तमन्यदा * संसदासीनं कश्चिद्वाक्पटुर्बटुरेत्य स्वस्तिवचनेनेत्यभ्यनंदयत्-राजन्नाजन्मसन्मान-प्रीणितप्राणिमंडलम् ।।
सटीका - विचक्षणशिरोमोले । राज्यं कुरु शतं समाः ।।१।। नृपोऽप्यदापयत्तद्योग्यमासनं, सोऽपि तत्रोपाविशत् । - ३४२
Education International
For Personal &Private Use Only
www.jainelibrary.org