________________
उ.६१
**********
प्रकटनम्
***kkkkkkk****
* सुलोचने त्वदीयः स । जिनरक्षितबांधवः ।। निःशूकदंदशूकेन । दष्टः कष्टदशां गतः ।। १।। साप्येवं श्रुत्वा
प्र.५१ * गतविषादाऽवादीत्-संध्याभ्ररागवदिरंमदवत्कुशाग्रां-भोबिंदुवल्लहरिवद्ध्वजवन्मरुद्वत् ।। आयुश्चलं तनुमतां पुन- * * रर्हदुक्तो । धर्मः स्थिरो ह्यत इह द्विज मे न शोकः ।।१।। अहो अस्या अप्यर्हन्मते दाढर्यमहो अविषादता चेति
देवस्य
स्वरूप * चिंतयन् विप्ररूपोऽमरस्ततो निःसृत्य पितृगृहस्थाया जिनदेव्याः पार्श्वमेत्योचे-वत्सेऽहिदष्टस्ते कान्तः । कृतान्तान्तिकतां * * ययौ ।। अतस्ते पतिहीनाया । जीवितव्यं विडंबना ।।१।। उक्तं च-कं(किं?) नु विहुरि कंतु कंतारि कंतु प्पुणु * * आवइहि कंतु होइ विहुरिहि सहिज्जउ । विणु कंतिहि सुक्खं कउ सयणुमज्झि कह हुंति लज्जउ । जा वहि +
विहुरु समावडइ मज्झं पइ अणत्यु तावहि कंतुसिरि ज्जियइ अन्नु विडावडु सत्युः ।। साऽप्येतत्कर्णकटुकमाकर्ण्य *
विगलद्विषादाऽवादीत्-पुत्रभ्रातृकलत्रमित्रभगिनीश्वश्रूवधुत्वादिना । जीवश्रेणिरनंतशस्त्विह भवे संभूतपूर्विण्यसो।। * * तद्भो कोऽपि न कस्यचित् सुखकरो नो दुःखदाता द्विजा-ऽतो नो शुग्मम किं च वच्मि सफलं मे जन्म *
पुण्यश्रिया ।।१।। अहोऽस्याप्यर्हन्मते दाढयमहोऽविषादता चेति चिन्तयन् विप्ररूपोऽमरस्ततोऽपि क्षेत्रमेत्य * जिनरक्षितमुज्जीव्याऽऽत्मनः सहजं दिव्यरूपं प्रकटीकृत्य च तुष्टो जिनभद्रवेष्ठिपुरस्तादित्याहस्म-धन्योऽसि श्लाघ्यजन्माप्यसि सपरिकरो यस्य ते चादिमस्व-र्वासी शक्रः सुराग्रे स्वयमकृततरां वर्णनं दर्शनाढ्यम् ॥ *
प्रश्नो. * यादृक्तत्तादृगेवात इह तव मया यः परीक्षानिमित्तं । गाढं चक्रेऽपराध स तु निजहृदये नेव धार्यस्त्वयार्य ।।१।। * सटीका * किञ्च तुष्टोऽस्मि ते श्रेष्ठि-नतो वृणुतरां वरम् ।। न जातु भाग्यहीनानां । भवेत् त्रिदशदर्शनम् ।।२।। ३४१
For Personal & Private Use Only
www.jainelibrary.org