SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ * बुद्ध्वा तद्वन्मूर्खजन्तोः कदापि ।। नात्मा देयो येन वः स्यादवश्यं । वश्या लक्ष्मीरायुषो वृद्धिता च ।।१।। * प्र.५१ ॥ इत्याचार्यश्रीदेवेंद्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्ती मूर्खस्याऽऽत्मा न देय इतिविषये वनप्रियकपिराजकथा ।। पुनस्तस्मिन्नेवैकपंचाशत्संख्ये शिष्यकृते प्रश्ने गुरुस्तदनुयायि द्वितीयमेकषष्टिमितमुत्तरमाह-विषादस्य *नात्मा देयो विषादस्य च, व्याख्या-हे वत्स ! न केवलं मूर्खस्यात्मा न समर्यः, किन्तु विषादस्यापि, विषदनं विषादो धनकनक* कलत्रमित्रपुत्रभ्रातृप्रभृतिस्वजनविनाशभूः खेदस्तस्य जिनवचनविदा नात्मा देयः, उक्तं च-भावियजिणवयणाणं। * * मणंमि ठाणं कयावि णो कुणइ ।। सुयसुहिबंधवभज्जा-पमुहविणासुब्भवो खेओ ।।१।। च शब्दः समुच्चये, * * अत्रार्थे भविककुटुंबकथा, तथाहित इहैव जंबूद्वीपे द्वीपे भारते वर्षे उज्जयिनी नाम नगरी, यत्र रात्रिपतिकान्तनिशान्त-ज्योतिरावलिविलुप्ततमिले।। + पूर्णिमारजनिरेव हि लोकै-र्जायतेऽपरनिशां न विशेषः ।।१।। तत्र जिनभद्रो नाम श्रमणोपासकः, तस्य * जिनदासी नाम जाया, तयोर्जिनरक्षितनामा नंदनः, जिनमतिर्नाम दुहिता, जिनदेवी नाम वधूरिति भविककुटुम्बं * वसतिस्म । यस्मिन् सम्यक्त्वमूलव्रतततिलतिका वर्द्धते निर्विबाधं । यस्मिन् जीवादितत्वावगमनतपनो भाति । * कामं तमोजः ।। यस्मिन्नावश्यकाद्यो विधिविधुरुदयी नित्यमेवास्ति यद्वा-धिक्यं किं वच्मि यस्मिन्नखिलगुणगणो * प्रश्नो. * दृश्यते नो विषादः ।।१।। तस्मिन् सदैव सद्धर्मकर्मणि कर्मठे कदाचित् सौधर्मदेवलोके सौधर्मावतंसकविमाने * सटीका * सुधर्मासभायां शक्रसिंहासनासीनः शक्रः सकलसुरसमक्षमेवमाचख्यो-भो भो देवाः शृणुत वचनं यद्विशालानगर्या * ३३८ For Personal & Private Use Only www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy