________________
***
–मास्ते शस्तं भविकपदतोऽग्रे कुटुम्बं यदीया ।। चेतोवृत्तिश्चलति न कदाऽप्येव सम्यक्त्वमार्गात् । किं चोत्पन्नेऽपि भजति शुचं नांगजातादिकष्टे || १ || इत्यसंभाव्यमृभुविभुवचः श्रुत्वा कश्चिन्मिथ्यादृगमरश्चेतस्यचिन्तयत्अहो स्वच्छंदजल्पत्व-महो स्वच्छंदचारिता || अस्मद्विभुर्यदेवं हि । ब्रूते सर्वसुराग्रतः ||१|| किंत्वेतत्स्वप्रभोरग्रे । वक्तुं नैव हि पार्यते ।। अतः परीक्षितुं यामि । तद्भविककुटुम्बकम् ||२|| ततश्चंडादिगत्या तिर्यगसंख्यातद्वीपसमुद्रानुल्लंघ्य स सुरो विप्ररूपेण तत्क्षोभाय तत्राढौकिष्ट यत्र क्षेत्रभुवि पितापुत्रौ स्तः, अपश्यच्च तौ कृषिकर्मकर्मठौ । ततो विप्ररूपेण सुरेण जिनरक्षितभक्षणाय मुक्तः समुत्कणः फणी, तेनापि दुष्टेन दष्टो जिनरक्षितः पपात परशुच्छिन्नवृक्ष इव क्षितौ, अत्रान्तरे प्रोक्तं विप्ररूपेणामरेण भो भद्र भद्रहरिहरविरंचियक्षादिदेवतावृंदम् ।। पूजय भक्त्यावश्यं । यदि वांछसि जीवितं स्वस्य || १ || जिनरक्षितोऽप्याख्यत्-मुक्त्वा जिनमतसाधु - जनं गुणगणरत्नकरंडम् ।। न नमत्यन्यं मम शीर्षं । क्रियते यदि शतखंडम् ||१|| अन्यच्च सुलभाः प्राणाः ।। प्राणिनां हि भवे भवे ।। एक सुदुः प्राप तमो धर्मो जिनोदितः ||२|| तद्भो व्रजंत्वमी प्राणा । अतिसत्वरत्वराः ।। अतोऽत्राऽर्थे न मे कोऽपि । विषादो विद्यते हृदि ||३|| अहोऽस्याऽर्हन्मते दार्ढ्यमहो अविषादता चेति चिंतयन् द्विजरूपः सुरस्तत्पितरमूचे - जिनभद्र ! तवांगभूरयं। ननु दष्टो विषमेण भोगिना ।। वितनुष्व सुरोपयाचितं । यदि पुत्रस्य जिजीविषाऽस्ति ते ||१|| जिनभद्रोऽप्यभणत्-द्विजन्मन् सत्यं ते वच इह न मे किंत्वभिमतं । यतः पुत्राः पौत्राः परमसुहृदः संपदइमा ।। अनित्या दर्भाग्रस्थिततरपयोबिंदव
Internationa
For Personal & Private Use Only
प्र. ५१
उ. ६१ भविक
कुटुंबकथा
प्रश्नो.
सटीका
३३९ www.jainelibrary.org