________________
* मकरोऽपि मूर्खस्तद्वचोविप्रतारितः सरित्पतितटनिकटवनमेत्य वानरपतिं प्रत्यूचे-मित्र निमन्त्रयति त्वां । * प्र.५१ * भ्रातृकलत्रं तदेहि वेगेन ।। विनिभालयास्मदालय-संबंध्युपचारमतिसारम् ।। १।। इत्युक्त्यनंतरं कपीश्वरं पृष्ठमारोप्य * उ.६० मकरोऽचालीत्-वानरेश्वरोऽपि वारिधिमध्यगतं स्वं मत्वा मकरमवादीत्-हे वयस्य त्वदावासं । गतेन मयका *
कपि में किमु ।। विधेयं तन्मदग्रे त्व-मादावेव निवेदय ।।१।। तदाकर्ण्य मकरोऽपि दध्यो-कपींद्रोऽसाविहानीतः । ।
चातुर्यम् * कथं पाथोनिधेस्तटम् ।। प्रयास्यति तदस्याग्रे । सत्यमेव निवेद्यते ।।१।। इति विंचिंत्य मूर्यो मकरो यथास्थितमाख्यत् * * कपींद्रोऽपि तन्निशम्य व्यमृशत्-अहो असो महामूर्ख-शेखरस्तदमुष्य हि ।। आत्मा वितीर्णोऽनर्थाय । तत्स * * देयो न जातुचित् ।। १।। इति संप्रधार्य धीनिधिः शाखामृगाधिपोऽभ्यधात्-हंहो मकर! यद्येवं । तदा नयसि * मां वृथा ।। यतो हृदयहीनोऽह-मतस्तन्न मदन्तिके ।।१।। मकरोऽप्युक्तवान्-मित्र ते हृदयं क्वास्ति । मदने * * विनिवेदय ।। यतस्तत्र द्रुतं गत्वा । संप्रत्येवाऽऽनयाम्यहम् ।।१।। वानरेशोऽप्याहस्म-मित्र किं न भवता श्रुतं *
वटो-दुंबरादिफलदेषु यन्मम ।। स्वान्तमस्ति तदितो वलस्व भो । येन तद्धि समुपानयाम्यहम् ।।१।। एवं * कपींद्रेणोक्तो मकरो मकराकरान्तमागतः । कपीश्वरोऽपि तत्पृष्ठाद्रयादुत्तीर्य तरुशिखरमारुह्येत्यवादीत्-भ्रातस्तव * मयाज्ञायि । सोहार्दं तद् व्रज व्रज ।। यतोऽत्रस्थो भवादृक्ष-रग्राह्योऽहं न संशयः ।।१।। किंच वारिचरैः साकं।
प्रश्नो . जलमार्गानुसारिभिः ।। स्थलजानां न संगः स्या-दित्याद्यमुनिभाषितम् ।।२।। मकरोऽपि मूर्खस्तदाकर्ण्य
सटीका * विलक्षास्यो यथागतमगच्छत् । कपींद्रोऽपि स्ववनांतश्चिरं क्रीडन् पश्चात्सुखभागजनि । इत्थं भव्या वानरेंद्रप्रबन्धं। ३३७
or Personal & Private Use only
www.jainelibrary.org