SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ ********** ************** शिवश्रीकेलिलीलायितं । मेतार्याय नमो नमोऽस्तु मुनये तस्मै त्रिसंध्यं त्रिधा ||१|| ।। इत्याचार्यश्रीदेवेंद्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तौ मैत्रीप्रेयस्यां मेतार्यमुनिकथा || करुणादाक्षिण्यमैत्रीप्रेयसीवैषयिकी: कुमारपालभूपालक्षुल्लककुमारमुनिमेतार्यमुनिकथाः श्रुत्वा पुनरपि शुश्रूषुः शिष्य एकपंचाशत्तमं प्रश्नमाह प्र. ५१-कंठगतैरप्यसुभिः कस्यात्मा नो समर्प्यते जातु? व्याख्या-हे भगवन्! कंठगतैरपि मृत्युदशां प्राप्तैरप्यसुभिः प्राणैरात्मा जीवः कस्य पुंसो जातु कदाचन नो समर्प्यते न वितीर्यते ? इति प्रश्ने शिष्येण कृते गुरुरपि तदनुयायि षष्टिसंख्यमुत्तरमाह - मूर्खस्य, व्याख्या - हे वत्स ! मूर्खो हीदृक्स्वरूपः स्यात्, उक्तं च- प्रायेणाऽत्र कुलान्वितं कुकुलजा स्त्री वल्लभं दुर्भगा । दातारं कृपणा ऋजूनऋजवो वित्तान्वितं निर्धनाः । वैरूप्योपहताश्च कान्तवपुषं धर्माश्रयं पापिनो । नानाशास्त्रविचक्षणं च पुरुषं निंदन्ति मूर्खाः सदा ||१|| एवंस्वरूपस्य मूर्खस्य जडस्य आत्मा दत्तोऽनर्थाय, अतो न देयः, अत्रार्थे परमतानुयायिवनप्रियकपिराजकथा, तथाहि इहैव जंबूद्वीपे द्वीपे भारते वर्षे समुद्रतीरे पुष्पाकरं नाम वनं, हिंतालतालकदलीलवलीरसाल–पुन्नागनागकृतमालमुखद्रुमाणाम् || छायाभिरंशुकिरणप्रकरोऽभिभूतो । यत्र प्रवेशमपि नो लभते कदापि ||१|| तत्र वनप्रियो नाम कपिराजः, तारुण्यभाजां कपिसुंदरीणा-मभंगुरैर्भोगभरैर्मद्विष्णुः ।। यो मन्यते नैव तृणाय देवांगनासनाथान्ननु नाकिनोऽपि ।।१।। स कदाचिद्विचरन् सागरान्तसीमांभसि लुण्ठन्तं महाकायं मकरमालोक्य प्रोचे - मित्र ! Jain Education International For Personal & *** प्र. ५१ उ.६० वनप्रिय कपिराज कथा प्रश्नो सटीका ३३५ www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy