SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ दक्षिणा ।।२।। भवन्ति शतशो मर्त्याः । सुस्थावस्थासु सत्कृपाः ।। द्वित्रास्त एव ये प्राण - प्रयाणेऽपि कृपालवः ||३|| धनधान्यादिवस्तूनां । दातारः सुलभा भुवि ।। त एव दुर्लभा व्यक्तं । ये जीवाभयदानदाः ।।४।। तदात्मन्नात्मनः प्राण–प्रदानेन विहंगमम् || रक्षता भवता किं न । प्राप्तं शर्म कुकर्महृत् ||५|| इत्यादिमैत्रीकलत्रसंयोगपवित्रगात्रो मेतार्यमहर्षिस्तत्कालमेव केवलश्रिया तत्स्पर्धयेवाऽपवर्गश्रियापि व्यवाहि । अत्रान्तरे स्वर्णकृन्मंदिरे केनचिद्विदार्यमाणस्येंधनकाष्ठस्य खंडमेकमुत्पत्य तस्यैव क्रौंचस्य गलेऽलगत् । तद्घातव्याकुलः क्रौंचोऽपि तान् हैममयान् यवानखिलानप्युद्गिलतिस्म । तांश्चालोक्य कलादः पश्चात्तापपरइत्यचिन्तयत्-हा दुष्टं चक्रे यत्साधु-रदोषोऽपि विनाशितः ।। तन्मन्ये बोधिघातो मे । समजायत दुर्धियः ।।१।। यदागमः-लिंगिणीपडिसेवाए । देवदव्वस्स भक्खणे ।। इसिघाए सासणुड्डाहे । बोहिघाओ निवेइओ || १ || अन्यच्च सापराधं मां । मत्वा श्रेणिकभूपतिः ।। सकुटुम्बं दंडयिता । तदुपायं करोमि किम् ? ||२|| ज्ञातं वाऽस्ति ममोपायो । भविष्यत्येक एव यत् ।। सांप्रतं शरणं श्रीम-ज्जिनेंद्रोदितसंयमः ||३|| इति निश्चित्य तत्कालमेव कलादो व्रतीभूय भूपाभ्यर्णमेत्य धर्माशिषा तमभ्यनंदयत् । श्रेणिकावनिपोऽपि ज्ञाततत्स्वरूपस्तमित्यशिक्षयत् भाविभद्र भयात्तापि । दीक्षा पाल्या प्रयत्नतः ।। यत इदृग्भयत्राण - कारिण्यत्राप्यभूत्तव ।।१।। राजन्नेवमेतदित्युदित्वा सुवर्णकारोऽनगारो व्रतं प्रपात्य सुगतिमसाधयत् । इत्थं येन महात्मना शमवता प्राणान् स्वकीयान् पणी - कृत्याऽकृत्यपरेऽपकारिणि जने मैत्री कृता प्रेयसी ।। तत्संयोगवशादवापि च ducation Intemational For Personal & Private Use Only ***** प्र. ५० उ. ५९ मैत्रीप्रेयसी वशीकृतो मेतार्यः प्रश्नो. सटीका ३३४ www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy