SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ दक्षिणा ।।२।। भवन्ति शतशो मर्त्याः । सुस्थावस्थासु सत्कृपाः ।। द्वित्रास्त एव ये प्राण - प्रयाणेऽपि कृपालवः ||३|| धनधान्यादिवस्तूनां । दातारः सुलभा भुवि ।। त एव दुर्लभा व्यक्तं । ये जीवाभयदानदाः ।।४।। तदात्मन्नात्मनः प्राण–प्रदानेन विहंगमम् || रक्षता भवता किं न । प्राप्तं शर्म कुकर्महृत् ||५|| इत्यादिमैत्रीकलत्रसंयोगपवित्रगात्रो मेतार्यमहर्षिस्तत्कालमेव केवलश्रिया तत्स्पर्धयेवाऽपवर्गश्रियापि व्यवाहि । अत्रान्तरे स्वर्णकृन्मंदिरे केनचिद्विदार्यमाणस्येंधनकाष्ठस्य खंडमेकमुत्पत्य तस्यैव क्रौंचस्य गलेऽलगत् । तद्घातव्याकुलः क्रौंचोऽपि तान् हैममयान् यवानखिलानप्युद्गिलतिस्म । तांश्चालोक्य कलादः पश्चात्तापपरइत्यचिन्तयत्-हा दुष्टं चक्रे यत्साधु-रदोषोऽपि विनाशितः ।। तन्मन्ये बोधिघातो मे । समजायत दुर्धियः ।।१।। यदागमः-लिंगिणीपडिसेवाए । देवदव्वस्स भक्खणे ।। इसिघाए सासणुड्डाहे । बोहिघाओ निवेइओ || १ || अन्यच्च सापराधं मां । मत्वा श्रेणिकभूपतिः ।। सकुटुम्बं दंडयिता । तदुपायं करोमि किम् ? ||२|| ज्ञातं वाऽस्ति ममोपायो । भविष्यत्येक एव यत् ।। सांप्रतं शरणं श्रीम-ज्जिनेंद्रोदितसंयमः ||३|| इति निश्चित्य तत्कालमेव कलादो व्रतीभूय भूपाभ्यर्णमेत्य धर्माशिषा तमभ्यनंदयत् । श्रेणिकावनिपोऽपि ज्ञाततत्स्वरूपस्तमित्यशिक्षयत् भाविभद्र भयात्तापि । दीक्षा पाल्या प्रयत्नतः ।। यत इदृग्भयत्राण - कारिण्यत्राप्यभूत्तव ।।१।। राजन्नेवमेतदित्युदित्वा सुवर्णकारोऽनगारो व्रतं प्रपात्य सुगतिमसाधयत् । इत्थं येन महात्मना शमवता प्राणान् स्वकीयान् पणी - कृत्याऽकृत्यपरेऽपकारिणि जने मैत्री कृता प्रेयसी ।। तत्संयोगवशादवापि च ducation Intemational For Personal & Private Use Only ***** प्र. ५० उ. ५९ मैत्रीप्रेयसी वशीकृतो मेतार्यः प्रश्नो. सटीका ३३४ www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy