________________
*********
मोटयित्वा तदस्थिसंधय उत्तारिताः । ततस्तौ क्रंदन्तौ मुक्त्वा मुनिर्वनमध्ये गतः, तयोराक्रंदं श्रुत्वा खिन्नेन परिवारेण राज्ञोऽग्रे साधुसमागमनादिस्वरूपं प्रकटीकृतं, कुपितो राजा नगरस्थयत्युपाश्रये गत्वा गुरुभ्यस्तवृत्तांतं • न्यवेदयत् । (तावन्मुनिरपि दण्डसाध्ययोरङ्गप्रत्यङ्गसन्धीन् वियोज्य ततो निःसृत्योद्यानमगात् । तदनु तत्स्वरूपं श्रुत्वा मुनिचन्द्रनरेन्द्रोऽपि तत्रेत्य च्छिन्नद्रुमाविव भूपतितौ केवलं विलोचनाभ्यां विलोकयन्तौ तावालोकितौ। इत्यध्यायत्-मन्ये कोऽन्यो मदीयेन बन्धुना सागरेन्दुना विना नियुद्धविद्यायां कुशलः परिकल्पयते । ततः क्षितिपतिः प्रतिश्रयमेत्य सूरीन्नतिपूर्वमुवाच प्रभो प्रसद्य सद्यस्तौ । कुरुत प्रगुणौ शिशू || भवन्ति ही महीयांसः । कृपाकवलिताशयाः ।।१।। - इति पाठान्तरम् ।) गुरवोऽप्यूचिवांसः - महीमहेंद्र नास्माकं । गच्छे कोऽपि नियुद्धवित्।। मुमुक्षुर्लक्ष्यते तस्मा-न्मुनिरन्यो गवेष्यताम् ||१|| ततः कुतोऽपि नृपस्तस्यैव राजर्षेः शुद्धिमाप्याराममगात् । तत्र निविष्टं स्वं ज्येष्ठ बंधुं सागरचंद्रमुनींद्रं वीक्ष्य नरेंद्रः प्रणत्यनंतरं यावत् त्रपयाऽधोमुखोऽभवत्तावद्राजर्षिरित्याख्यत्-चंद्रावतंसराजेंद्र - सूनोस्तेऽहो कुलीनता || अहो आज्ञैश्वर्यमहो। नयाध्वाऽहो विवेकिता ।।१।। यच्छांतानां मुमुक्षूणां । सदा विघ्नपरायणौ || स्वपुरोधः सुतो नैव । निवारयसि दुर्मदौ ।।२।। राजाप्याहस्म-भगवन्नपराधं मे । क्षमस्व सकृपं मनः । कृत्वा विधेहि तो सज्जौ । पुनर्नैवं करिष्यतः ||१|| राजर्षिरप्यूचे - नरेंद्र! यदि तौ दीक्षां । कक्षीकुरुत आदरात् ।। तदा सज्जशरीरौ तो । करवाणि न चान्यथा ।। १।। ततो राज्ञा तौ गृहादानाय्य तयोश्चैव पुरो निवेदितं तत्स्वरूपं, प्रतिपन्नं च ताभ्यामपि । ततो राजर्षिस्तौ
For Personal & Private Use Only
******
प्र. ५०
उ. ५९ राजपुरोध: दीक्षा
प्रश्नो
सटीका
३२९
ty.org