________________
दीक्षा
मैं ततो मोदकं द्विधा कृत्वा नृपः पार्श्वस्थबालचंद्रगुणचंद्राभ्यामदात् । तद्भक्षणात् क्षणाक्षीणचेतनौ विमातृपुत्री- प्र.५० * मंत्रोषधयोगाद्राजापि द्रागजीवयत् । ततस्तत्स्वरूपं दासीमुखात् श्रुत्वा नृपो मोदके विषसंक्रमं मत्वेति * उ.५९ * चिन्तयाश्चकृवान्-अहो मम विमातुर्धिग् । धिगिदं दुष्टचेष्टितम् ।। यद्वा सपत्नीमातृणां । स्वभावो भवतीदृशः
सागरचन्द्र * ।।१।। तदा मुदा मयामुष्या । दीयमानं तनूभुवे || साम्राज्यं या निराचक्रे । सांप्रतं पुनरीहते ।।२।। मैं * विधेर्वशादभक्षिष्यं । चेदमुं विषमोदकम् ।। तदापतिष्यं दुर्ध्याना-न्मृत्वाहं दुर्गदुर्गतौ ।।३।। तदलं विषवल्ल्येवा-विलम्ब * मृतिमूलया ।। राज्यश्रियानया यस्या । भोगो नायतिसुंदरः ।।४।। इति विभाव्य सागरचंद्रनरेंद्रो विमातृपुत्राय *
राज्यं दत्वा सुगुरुपादमूले प्राव्राजीत् । क्रमेण गीतार्थतया स राजर्षिरेकाक्येव विहरन्नेकदावंत्यां गतः संघनिर्विघ्नतां । * मुनीनपृच्छत् । तैरपि राजपुत्रपुरोहितपुत्रावेवात्र प्रत्यूहहेतुरित्युक्ते भिक्षामिषात्सागरचंद्रर्षिः पुरोधःसौधमगात्। * * तत्रोच्चैःस्वरं धर्मलाभं दत्वा स प्रविशन् तद्गृहभृत्यैरेवमभण्यत-मुनींद्र ! गाढं मा जल्प । मौनमेवावलंबय ।।
यदत्रोरुभयं राज-पुरोहिततनूजयोः ।।१।। सोऽपि तदनाकर्णितं कृत्वा पुनर्धर्मलाभमुच्चैरुच्चचार । तत् श्रुत्वा * भूपपुरोधःसुतौ द्रागेत्य सहर्षमेवमवोचतां-रे मुंड सुष्ठु दृष्टोऽसि । ततो मंडय तांडवम् ।। ऋषिरप्याख्यत्-भोभोस्तालं * युवां धत्तं । यथा नृत्यं करोम्यहम् ।।१।। ततस्ताभ्यां करताले कृते सति यतिर्नृत्यमासूत्रयन्नेवमाक्षिपत्-आः * * पापो भरतग्रंथा-नभिज्ञमतिवैभवो।। भवतो मां कुतालेन । किमेवं नर्तयिष्यतः ।।१।। इत्याकर्ण्य कोपाद्राजपुरोहितसुतौ +
सटीका * यावद्यतिताडनायोद्यतावभूतां तावत्पूर्वाधीतयुद्धकलादक्षेण सागरचंद्रमुनींद्रेण शिक्षार्थं तयोर्हस्तपादाद्यंगानि * ३२८
प्रश्नो.
www.jainelibrary.org