________________
दाननिदानं पृष्टाः, तन्मध्यात् प्रथमं क्षुल्लर्षिः स्वं सविस्तरं व्यतिकरं प्ररूप्य तत एवमवादीत् सर्वंसहा - महाराज! । राजरुग्यशसस्तव ।। समीपमागतो यावत्प्राज्यसाम्राज्यहेतवे ||१|| तावत्सम्यगिमां गीतिं । निशम्य विषयेषु मे ।। मनो व्यरंसीदासीच्च । दीक्षायां निश्चलं मनः ||२|| अतो ममैषा नटिका । परोपकृतिकारिणी ।। इतीव कंबलरत्नं । तस्यै प्रादां प्रमोदतः || ३|| अथ चेत्संशयोऽत्रार्थे । भवतां हृदये तदा ।। इदं मत्पितृनामांकं । मुद्रारत्नं विलोक्यताम् ||४|| इत्युदीर्यादर्शयद्राज्ञो मुद्रारत्नं क्षुल्लककुमारः, राजाप तद्गिरा कंडरीकनामांकितमुद्रारत्नदर्शनेन च तं निजानुजतनुजं ज्ञात्वा हर्षप्रकर्षादित्याख्यत् - हे वत्स ! सुष्ठु विहितं । यदिहागास्तद् गृहाण राज्यमिदम् ।। उपभुंक्ष्व विषयजातं । व्रतपालनवार्तयापि कृतम् ||१|| क्षुल्लकोऽप्याचख्यौ राजन्नैवं वक्तुं । युक्तं राज्याय नरकपथिकाय ।। चिरकालपालितं व्रत - मुज्झति को बुद्धिमान् शिवदम् ।।१।। नृपोऽप्येतदाकर्ण्य सुतमूचे - वत्स ! स्वरूपमश्रावि । तावत्क्षुल्लमहात्मनः ।। तवापि श्रोतुमिच्छामि । तन्निवेदय निर्भयः ||१|| राजांगजोऽप्यवदत् - ताताद्य श्वो वाहं । राज्यार्थी हंतुकाम व त्वाम् ।। अभवं विषप्रयोगात् । किं त्वेतद्गीतिकाश्रवणात् ||१|| मम मतिरीदृग्जज्ञे । यद्राजाऽयं स्वयं वयोऽतीतः।। स्वल्पेनापि हि कालेन । धर्मराजान्तिकं याता ||२|| युग्मम् । तदहं वृथैव पापं । समर्जयामीति मनसि निश्चित्य ।। कर्णाभरणं स्वीयं । नट्यै प्रादां प्रमोदेन || ३ || भूपोऽप्येतत् श्रुत्वा श्रीकान्तां प्रत्यवादीत् - भद्रे स्वरूपं स्वसुत–स्यापि तावन्मया श्रुतम् ।। तवापि श्रोतुमीहेऽह - मतो वद मदग्रतः || १ || साप्याहस्म - भूकान्त !
For Personal & Private Use Only
प्र. ५०
उ. ५८
नृपतिपूर्व
दानकारणम्
प्रश्नो
सटीका
३२३
www.jainelibrary.org