________________
* जनन्यादिकदाक्षिण्य-वशात् पालितवान् व्रतम् ।।१।। तथापि संयमे नास्य । मनो निश्चलतामगात् ।। तद्विद्मो * प्र.५० * ही महामोह-महाराजविजृम्भितम् ।।२।। इति ध्यात्वा गुरुभिरुपेक्षितः क्षुल्लकर्षि गच्छान्निर्गच्छन् मासावुभयमार्गभ्रष्टो उ. ५८ * भवत्विति मात्रा सहानीतकंडरीकनामांकितमुद्रारत्नकंबलरत्नप्रदानपूर्वमित्यभाष्यत-वत्स पुरे साकेते । गंतव्यं ।
नर्तिक्यै * तत्र कंडरीकस्य।। तव सवितुरग्रजन्मा। विजयी श्रीपुंडरीकनृपः ।।१।। तस्य च दयं मुद्रा-रत्नमिदं सोऽपि के
क्षुल्लकादि
कृतदानम् * वीक्ष्य तत्त्वां च ।। स्वानुजतनुजं मत्वा । राज्यार्द्धं दास्यति स्नेहात् ।।२।। इति मातृगिरमंगीकृत्य क्षुल्लर्षिस्ततः
प्रस्थितः क्रमेण सायं साकेतपुरमाप । तदानीं नृपसदसि नृत्यनिभालनाय नागरान् गच्छतः प्रेक्ष्य तत्पृष्ठे । * सोऽप्यगात् । प्रातर्भूपं प्रेक्षिष्ये इति क्षुल्लको जायमानं प्रेक्षणीयकमीक्षितुमस्थात् । *. अत्रान्तरे काचिन्नर्तकी स्वनृत्यकलादर्शनविस्मापितभूपतिप्रभृतिजनप्राप्तसाधुवादा चिरकालनटनश्रमखिन्नापि र * नृत्यमत्यजन्ती निशान्ते निद्रावशादीषच्छिथिलितहस्तपादादिन्यासा यावदासीत्तावद् बृहत्तमया नर्तक्या माभूदस्य * * रंगस्य भङ्ग इति निश्चित्य तां प्रति गीतिकादंभादेवमभाणि-सुट्ठ गाइयं सुट्ट वाइयं । सुट्ठ नच्चियं मा मुहसु * * सुंदरीदाणी || परिवालियदीहराइए । निसीयंते मा पमायेह ।।१।। इत्याकर्णनानन्तरं तया सविशेषं नृत्ये क्रियमाणे प्रस्तावपठितहृष्टैः पंचभिरेभिर्भूविभोः पूर्वं क्षुल्लककुमारेण रत्नकम्बलं, नृपपुत्रेण यशोभद्रेण मणि- *
प्रश्नो. * मयकुण्डलं, प्रोषितकान्तया श्रीकान्तया मुक्ताहारो, जयसन्धिना धीसखेन करकंकणं, कर्णपालेन च मिण्ठेन के सटीका * मणिमयांकुशः, प्रत्येकं लक्षमूल्यानि तस्यै दत्तानि । ततोऽनुचितप्रदानाद्विस्मितचेतसा विशांपत्या पंचापि * ३२२. ...