SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ प्र.५० उ.५८ क्षुल्लक मुनेः दाक्षिण्यम् * मेत्योवाच-भगवति! भवदुक्तावधि-वारिधिपारंगमोऽभवमतो माम् ।। प्रविसर्जय गार्हस्थ्य-द्रुमफलमास्वादयामि * यथा ।।१।। साप्यूचे-शिष्ट! सुष्ठूदितं यस्मा-त्प्रतिज्ञातार्थपालकः ।। गरीयान् स्यात्तथापि त्वं । वाचकान् * मुत्कलापय ।।१।। ततः स उपाध्यायसविधमेत्य स्वं प्राच्यस्वरूपं प्राचीकथत् । कलाचार्योऽपि तदाकर्ण्य * विषण्ण एवमाख्यत् -महाभाग! किमेवं हि । भवता हृदि चिन्तितम् ।। को नाम क्षीरमापीय । कांजिकं * * पातुमिच्छति ।।१।। तत्ते युक्तः स्थिरीभावो । दीक्षायामुत नो मनः ।। तथापि द्वादशाब्दानि । यच्छ मेऽपि तयोरिव ।।२।। सोऽपि दाक्षिण्यप्रेयसीविवशस्तद्वचोऽनुमेने । क्रमेण परिपालितावधिः स पुनरुपाध्यायमेत्याऽवोचत्* कलाचार्य! त्वदुक्तोऽपि । पूरितो द्वादशाब्दिकः ।। मयावधिरनुज्ञा त-द्यच्छ यामि यदुत्सुकः ।।१।। तत् * श्रुत्वोपाध्यायोऽप्यभ्यधात्-वत्सैवं यदि वांछाऽस्ति । तदा त्वं गच्छनायकम् ।। गत्वानुज्ञापय क्षिप्रं । ततो * युक्तं समाचर ||१|| ततः क्षुल्लर्षिर्गुरुपार्श्वमेत्य सविनयं प्राक्तनं व्यतिकरं न्यवेदयत्. गुरवोऽपि तत् * श्रवणानन्तरं विमनस्कीभूय तमभाषन्त -हा वत्स स्वच्छवंशस्य । दीक्षाविपरिणामधीः || न ते योग्या यथा । हेम्नः । काचखण्डस्य योजना ॥१॥ अतः स्थिरो भवाहोश्वि-त्सर्वथा विमखो व्रते ।। तथापि तेषामिव नो। के * देहि द्वादशवत्सरीम् ।।२।। सोऽपि दाक्षिण्यप्रेयसीवशंवदस्तद्वचनमिव गुरुगिरममंस्त । पूर्णायां प्रतिज्ञायां स * * पुनर्गुरुपादान्ते समेत्य प्रांजलिरजल्पत्-भगवन् पूज्यपादैर्य-त्प्रोक्तं तत्यालितं मया ।। अतः प्रसत्तिमासत्र्य । मां विसर्जयत द्रुतम् ।।१।। सूरयोऽपि तन्निशम्येत्यचिन्तयन्-अहो अष्टचत्वारिंश-द्वत्सरी यावदेषकः ।। प्रश्नो . सटीका ३२१ Bucao intematon For Personal & Private Use Only www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy