SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ * विषण्णवदनेत्यवादीत्-हे वत्स! रत्नसदृशं । श्रामण्यमगण्यशर्मदं प्राप्य ।। काचोपमेषु विषये-ष्वल्पसुखेषु स्पृहा - प्र.५० * का ते ।।१।। को नाम राज्यमाप्या-भिलषति दारिद्यसंगतिं मतिमान् ।। आरुह्य कुम्भिकुम्भं ।। समीहते कः * उ.५८ * खरारोहम् ।।२।। यद्यपि कुलगिरिदिक्करि-कूमैर्विधृतापि खलु चलत्यचला ।। तदपि न धीरैः पुरुषै-विमुच्यते * माहता वचनाङ्गीकरणं * स्वीकृतं कृत्यम् ।।३।। अपि लभ्यते शरीरिभि- रुपेंद्रदेवेंद्रचक्रिणां पदवी ।। न पुनर्निवृतिवनिता-सुखसंगतिकारणं * चरणम् ।।४।। तदमुं जवेन मुञ्चा-ऽनल्पं कुविकल्पकल्पनाजल्पम् ।। आलोचय गुरुपार्श्वे । प्रायश्चित्तं निजं * * गत्वा ।।५।। इत्युक्तोऽप्यम्बया स यावन्न व्रते स्थिरीबभूव तावत्तया पुनस्तं प्रत्यूचे हे वत्स! यद्यपि * * व्रत-पालनविमुखोऽसि तदपि मद्वचसा ।। द्वादशवर्षी गुरुकुल-वासे वस वासनावशतः ।।१।। सोऽपि * दाक्षिण्यप्रेयसीवशीकृतो मातृगिरमंगीचक्रे । व्यतीतेषु द्वादशवर्षेषु पुनः स मातरमूचे-हे मातरवधिः पूर्णो । * * यस्त्वया कथितोऽभवत् ।। अतो मामनुजानीहि । यतोऽहं विषयोन्मुखः ।।१।। तदाशयं मत्वा माताऽप्याहस्म-हे वत्स! भवतो नेदं । वक्तुं युक्तं तथापि हि ।। पृष्ट्वा महत्तरां मातृ-कल्पां कुरु यथारुचि ।।१।। ततः प्रसूं नत्वा स महत्तराभ्यर्णमेत्य तदात्मस्वरूपमचकथत्, साऽपि तन्निशम्य विमनाः स्माह-वत्स! युक्तं * भोगा-चरणं चरणोज्झनात् ।। को नाम मणिमुत्सृज्य । काचखण्डं समीहते ।।१।। अथवा दुःशकस्तर्हि । * प्रश्नो . * जननीवन्ममापि हि ।। देहि द्वादशवर्षाणि । पश्चाद्यदुचितं कृथाः ॥२।। सोऽपि दाक्षिण्यप्रेयसीवशंवदो * सटीका - मातृवचनवन्महत्तरावचनममन्यत । यावत्प्रतिपालितद्वादशाऽब्दावधिः क्षुल्लककुमारः पुनरपि गणिनीपार्श्व- ३२०...
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy