SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ विधाय समाधिम् ||१९|| भुंक्ते निजं कर्म जनो न को वा पकारकृन्न ह्युपकारकृच्च ॥ तत्किं तयोस्तोषरुषावतस्तौ । क्षाम्याम उच्चैः क्षमयामहे च ||२०|| क्षाम्यामोऽखिलजीवान् । सर्वे क्षाम्यंतु तेऽधुनास्मांश्च ॥ सर्वेषु तेषु मैत्री । न विरोधः केनचित्साकम् ||२१|| क्षामणा ।। मेरोरप्यधिकेन येन नियतं नासीन्न संपद्यते । तृप्तिः षड्विधजीवकायवधतो यस्य स्मृतः संभवः ॥ यः सुप्रापतरश्चतुर्गतिभवे तं सर्वमेवाधुना - हारं भाववशंवदीकृततमस्वांतास्त्यजामो वयम् ||२२|| अनशनम् || पापात्मापि जनोऽवसानसमये यं प्राप्य दैवीं गतिं । गच्छत्येव सुदुस्तरोऽपि सुतरः स्याद्येन दुःखोदधिः ॥ यस्मान्मुक्तिरमावगूहनसुखं संपद्यते मंक्षु तं । पंचानां परमेष्ठिनामिह नमस्कारं स्मरामोऽधुना ||२३|| नमस्कारः ॥ इत्याराधनामाधायाम्मडशिष्याः समाधिना विपद्य ब्रह्मलोकाह्वये पंचमे कल्पे शक्रसामानिका सुराः समजनिषत । इत्यम्मडछात्रकथां निशम्य । भव्या अकार्यं परिमुंचताशु || यथापवर्गोदधिनंदिनी वः । सर्वांगमालिंगनमातनोति ||१|| ( इत्थं सत्त्ववतां धुरि स्थितवतां श्रीअम्मडोपासिनां । छात्राणां चरितामृतं श्रुतिपुटैराकंठमापीय भोः । भव्यौघास्त्यजताश्वकृत्यकरणं यद्यात्मनो वाञ्छत । प्रोद्यत्स्वर्गमहोदयालसदृशः सर्वांगमालिङ्गनम् ।। पाठा.) Jain Education International ।। इत्याचार्यश्रीदेवेन्द्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तावकार्यपरिहारेऽम्मडछात्रकथा || For Personal & Private Use Only *** ***** प्र. २ परिमुंचनीय मकार्यम् प्रश्नो. सटीका ॥२४॥ ry.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy