________________
दुर्बुद्धिः
* दूतीं शिक्षयित्वा प्रेषीत्, सापि यशोभद्राभ्यर्णं प्राप्तामृतकिरा गिरा व्याजहार-कृशांगि रमणीजातौ । त्वमेव हि * मणीयसे || यत्त्वां देवीमिव ध्याय-त्यन्वहं पुंडरीकराट् ।।१।। तत्त्वं तदीप्सितं स्वांग-संगमेनाशु पूरय ।।
उ.५८ यस्मादम्यर्थिताः सन्तो | न भवन्ति पराङ्मुखाः ।।२।। सापि तदकांडदंभोलिदंडपातोपमं वचनं श्रुत्वेत्याहस्म-आ +
पुंडरीक * अदृष्टव्यवदने! । निःकृष्टस्त्रीमतल्लिके! ।। एवं वदंत्यास्ते किं न । रसना खंडशोऽजनि ।।१।। किं च तस्या
धमस्याग्रे । निगद्यं यन्मृगाधिपे ।। परिजाग्रति किं फेरुः । पराभवति तत्प्रियाम् ।।२।। अन्यच्च वांछन् के भोगाय। निजसोदरसुंदरीम् ।। किं न जिहेति स भ्रातु-रन्वयाद्यशसोऽपि च ।।३।। इत्युक्तियुक्त्या तयाऽऽक्षिप्ता ।
सती दूती समेत्य तत्स्वरूपं पुंडरीकाय न्यवेदयत्, राजाप्येवं श्रुत्वाऽनंगाऽग्नितप्त इत्यचिन्तयत्-सत्यं । * जीवत्यनुजे-ऽनुजप्रियेयं न मे वशं यात्री । तत्कंचनाप्युपायं । तदपायकरं करोम्यचिरात् ।। १।। ततः स दुष्ट: * * कंडरीकं बन्धुं प्रच्छन्नं व्यनाशयत्, अहह रागातुराणां दुर्विलसितम्! यतः-न गणेइ कुलकलंकं । न गुरूवएस
न सीलपष्मंसं ।। मारइ पियंपि बंधुं । हद्धी रागाउरो पुरिसो ।।१।। कंडरिकप्रियाऽपि प्रियस्य तादृशमनिष्टं * * श्रुत्वाऽस्तोकशोकसमुद्रमग्ना मनस्येवमचिन्तयत्-यः पापी मद्रपामिष-भक्ष्यविधौ हि गध्र इव गद्धः ॥ * तादृक्प्रेमस्थेम-स्थानं बंधुं विनाशितवान् ।।१।। स हृदालवालरूढं । मम शीलतरुं सुभावजलसिक्तम् ।। गज से * इव भंजन्नधुना । केनालंभूयते धर्तुं ।।२।। तस्मादस्मान्नगरा-दपसरणमेव मे मंक्षु ।। यस्माद्विमृश्यकारी | प्राणी *
सटीका * सुखरंगभाग्भवति ।।३।। इति ध्यात्वा संध्यायामेकाकिनी सा स्वावासान्निस्ससार, प्रत्यहं मार्गमुल्लंघयन्ती तां ३१८
प्रश्नो.
Jan Educalon International
For Personal & Private Use Only
www.jainelibrary.org