SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ * करुणाकन्यायाः पाणिपीडनमातनोत् । तत्याणिस्पर्शमात्रहृष्टेन नृपप्रष्ठेन द्वासप्ततिलक्षप्रमाणरुदतीद्रव्यकरमोचनं * प्र.५० * तन्मुखमंडने प्रदत्तम् । तथाऽकार्यंत तत्पितुर्योग्या विडंबितकैलासाहंकारविकाराश्चतुश्चत्वारिंशदधिकचतुर्दशशत- * उ.५७ विहाराः, ततो धन्योऽयं सुलब्धजन्मायं येनाऽपरिणीतपूर्वा परिणीता करुणा नाम कन्येति मुहर्मुहुः संघलोकेः अरुणाया: शोकः * श्लाघ्यमानस्तया करुणया गृहिण्या सह कुमारपालभूपालः स्वालयमलंचकार, चकार च तस्याः सकललोक* समक्षं पट्टबंधम् । भणितं च-गौरवाय गुणा एव । न तु ज्ञातेयडम्बरः ।। वानेयं गृह्यते पुष्प-मंगजस्त्यज्यते * मलः ।।१।। इतश्च सा प्राक्पट्टराज्ञी अकरुणाभिधाना करुणायाः सपत्न्यास्तादृशीं परमोन्नतिं दृष्ट्वा पतिकतपरा- * * भवनिवेदनाय विधिनाम्नः पितुरन्तिकमियाय । तेनापि चिरकालदर्शनात्तादृगभिभववैरूप्याच्चानुपलक्षिता ते सती सेत्यभाष्यत-का त्वं पंकजलोचनेऽस्म्यकरुणा धातस्त्वदीयांगजा । किं दीनेव पराभवेन स कुतः किं * * कथ्यतां कथ्यतां ।। हेमाचार्यगिरा नवोढकरुणा कांतानुरक्तः क्रुधा । संप्रत्येष कुमारपालनृपतिर्निसियामास * माम् ।।१।। विधिरप्येवं श्रुत्वा स्माह-वत्से सत्यप्रतिज्ञोऽपि । स कुमारनरेश्वरः ।। वचसा लिंगिनस्तस्य । त्वयि र * जज्ञे विरागवान् ।।१।। तथापि भव धीरा त्वं । चिन्तयिष्याम्यतः परम् ।। त्वत्पतिं तादृशं यो हि । भावी * * त्वद्वशगः सदा ।।२।। एवं तां संबोध्य वेधाः स्वपार्श्वेऽस्थापयत् । त्रिभुवनपालपुत्रोऽपि तया करुणया * प्रश्नो. * पट्टमहिष्या सह चतुर्दशवर्षाणि यावन्महानंदोपमं सुखमनुभूय माहेंद्रस्वर्गमगमत् । करुणापि तत्तादृक्प्रेम-* सटीका * लालितान्यनुस्मरन्ती कलिमलिनं जनं परिजिहीर्षुरिव तमेव प्रियमन्वगात् । कुमारपालक्षितिपालवृत्तं । श्रुत्वेति में ३१६ ************************ E ducation International For Personal & Private Use Only www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy