________________
प्र.५०
उ.५६
राज्ञः
दीक्षा
* प्रत्यूचे-हंहो भवद्भिर्दृष्टव्यो । मद्वदेष त्वयापि च ।। वत्सैताः स्वप्रजाः पाल्या । वयं तु व्रतलिप्सवः ।।१।। * * ततो ज्ञातपरमार्था राजन्यादय एवं विज्ञपयामासुः-नाथेदृग्राज्यमीदृक्च । शुद्धांतं न तवोचितम् ।। त्यक्तुं न * * चाज्ञा तेऽखंडि । भवतो भीर्न वान्यतः ।। १।। तत्प्रसीद महीपाल! । पालयेताः प्रजाः स्वयम् ।। वृद्धत्वे सति *
यद्युक्तं। तद्विधातव्यमेव हि ।।२।। नृपोऽप्यूचे-हंहो जना भवद्भिर्य-द्भणितं तत्तथैव हि ।। किंतूच्चैर्दुःखदे में * राज्यां-तःपुरे परमार्थतः ।।१।। नास्माकमाज्ञा केनापि । लोपितास्माभिरेव तु ।। व्यलोपि प्राच्यभूपाऽऽज्ञा । * * यदेवं स्थीयते गृहे ।।२।। यतस्तैस्तत्यजे राज्य-मदृष्टपलितैः किल ।। व्यधायि विषयासक्तै-रस्माभिस्तु न *
तादृशम् ।।३।। परतोऽपि न भीतिर्नः । किंत्वेतद्भीतिकारणम् ।। यदस्मान् व्यथयंत्येवं । विषयाख्या महाद्विषः । * ॥४।। आवायुं चेद्भवेदाशा । जीवितव्ये तदा वयम् ।। विलम्ब कुर्महे ताव-त्कालं युष्मद्वचःस्थिताः ।।५।। * * तत्प्राणितव्यमन्यच्च । प्रतिक्षणविनश्वरम् ।। धनादिकं तदेकं तु । श्रेयस्कृत् सुकृतं कृतम् ।।५।। इत्यादिना * *तान्निवार्य निवेशितसत्पात्रादिवित्तो हा प्राणनाथ! किमनेन जनेनाऽधुनाऽपराद्धं येनैवमशरणं निरस्य * चरणश्रियमभिलषसीति करुणस्वरमंतःपुरं मनसाप्यचिंतयन्नात्मजकारितनिःक्रमणमहो महीपालः * पुष्पकरंडोद्यानसमवसृतमहीचंद्रसूरिपार्श्वे प्रव्रज्य क्रमेण मुक्तिकांतावक्षःस्थलाऽऽभरणीबभूव । इति कनकरथा के +ऽऽख्यक्षोणिपालस्य वृत्तं । त्रिभुवनजनचित्ताश्चर्यकृत्संप्रधार्य ।। निजहदि न हि भव्याः कामिनी चिन्तनीया। * * यदि शिवपुरलक्ष्मीसौख्यलम्भस्पृहा वः ।।१।।
प्रश्नो. सटीका
३१२००
For Personal & Private Use Only