SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ **kkkkkkkkkkkkkkkkkkkkkk * देवि युक्तमिदं कर्तु-मज्ञानानां न धीमताम् ।। अतः किं बहुनोक्तेन । परमार्थतस्तु कथ्यते ।।१।। यदद्यैव * भवत्कुक्षि-शुक्तिमुक्ताफलोपमे ।। सुते राज्यभरं न्यस्या-ऽऽदास्ये चरणमार्हतम् ।।२।। तदेतद्वज्रपातप्रायं श्रुत्वा * राज्ञः * राज्ञी सखेदं सगद्गदमुवाच-प्राणेश! रक्तां भक्तां च । मां मुक्त्वा चेज्जिघृक्षसि ।। व्रतं तदा मरिष्यामि । वैराग्यम् निश्चितं त्वद्विनाकृता ।।१।। भूपोऽप्यभ्यधात्-देवि! चेदनुरागोऽस्ति । भवत्या मयि निश्चितम् ।। तदा मया । विधेयं य-त्तद्विधेयं त्वयापि हि ।।१।। अन्यच्च-यद्विधत्तेऽग्रतः कान्त-स्तदेव यदि गेहिनी ।। विदधाति तदा * * प्रेम-प्राधान्यं कैर्न वर्ण्यते ।।१।। यच्चोक्तं त्वां विनां नूनं । मर्म्यहं तन्न चित्रकृत् ।। परां कोटिं गते प्रेम्णि । * दुष्करं न हि किंचन ।।२।। किंतु त्वद्वचनैरेभि-रिदानी हृदयं मम ।। न भिद्यते टंकिकाग्रे-रिव वज्रं मनागपि । ।।३।। अतोऽत्रैव परत्रैव । यत्कर्म शुभकृद्भवेत् ।। तदेव हि विधातव्यं । युक्तायुक्तविचारिभिः ||४|| * इत्युदीर्य तादृशीं चासदृशरूपलावण्यां पट्टदेवीं मनसाप्यचिंतयंस्तदैव नरदेवः सुधर्मासधर्माणमास्थानमास्थाय नै राजन्यलोकमाहस्म-भो लोका हृदयेऽस्माकं । वर्ततेऽयं मनोरथः ।। यत्स्थापयामि स्वे राज्ये । सुतं कनकशेखरम् * ॥१।। तदस्मदग्रतो वेगा-द्भवद्भिः प्रणिगद्यताम् ।। अस्य राज्यस्य योग्योऽयं । कुमारो विद्यते न वा? ||२|| * तेऽप्येवं श्रुत्वा प्रांजलयो व्यजिज्ञपन्-देवाब्धाविव गंभीरे । धीरे मेरुगिराविव ।। इंदाविव कलासारे । कुमारे * प्रश्नो. * कस्य नो मनः ।।१।। किंचासो स्वगुणैरेव । गौरवार्होऽखिलांगिनाम् ।। निःकलंकतया यस्मा-नवेंदुः कैर्न * सटीका में वंद्यते ।।२।। तन्निशम्य नृपस्तदेवोत्सवपूर्वं कनकशेखरकुमारं राज्ये न्यस्य पुनस्तान् प्रधानपुरुषान् पुत्रं च ३११ Jan Education Interational For Personal & Private Use Only www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy