________________
* वशादभंगुरभोगभूरुहमेवमनुभवतोरभूत्फलोपमः कनककेतुर्नाम सूनुः । कदाचिदरुणकरकिरणप्रकरातिभीष्मे * प्र.४९ * ग्रीष्मे मध्याह्ने गवाक्षमंडपमध्यमध्यासीनस्य राज्ञः शिरसि चिकुरविवरणं कुर्वाणा राज्ञी क्षीरोदडिंडिरपांडुरं केशं
उ.५६ * पश्यन्ती केलिच्छलादित्यालपत्-प्रेमपंकजिनीखंड-मंडनैकसितच्छद! ।। स्वामिन् ममैकं वचनं । शृणु दूतः -
राज्ञीसूचित
दूतागमः * समागतः ।।१।। तदाकर्णनोद्भूतप्रभूतसंभ्रमो भूमिपो दिक्षु चक्षुः क्षिपन् दूताऽदर्शनादित्यचिन्तयत्-अहं पश्यामि * नो दूतं । देवी त्वेवं वदत्यतः ।। कथं संभाव्यते दूत-प्रवेशः स्थान ईदृशे ।। १।। राज्यपि चिंताचांतचेतसं के * जीवेशं विज्ञाय विज्ञपयांचकार-नाथ! प्रत्यर्थिपृथ्वींद्र-समाराध्यपदोऽपि ते || क एष व्याकुलीभावो।
दूताकर्णनसाध्वसात् ।।१।। भूपोऽप्यभणत्-देवि! न व्याकुलत्वं मे । भयात्किंतु महानयं ।। भ्रमहेतुर्न पश्यामि। * यद् दूतं त्वं तु पश्यसि ।।१।। किंच-नियुक्ताः सन्ति सर्वत्र । चरा द्वादशयोजनीम् ।। अनिशं भुवमाक्रम्य । * कथयंत्यस्मदग्रतः ।।२।। अपि च-नास्मत्सुसंचरवर-दृग्भ्यां तव दृगुज्ज्वला ।। अत एव वितर्को मां । व्याकुली
कुरुतेतराम् ।।३।। ततः स्मितवशोद्भवदीषत्कंपकंप्रस्तनी राज्ञी हस्तेन हस्तमाहत्य स्फुटाक्षरमाख्यत्-स्वामिन्न* मानुषाकारं । दूतं युष्मत्पुरो ब्रूवे || नेदृक्चिता यतः स्त्रीणां । मादृश्यास्तु किमुच्यते ।।१।। नृपोऽप्याहस्म* बर्हिबर्हसधर्माण-केंशि! किं नः पुरस्त्वया ।। दूत आगादिति वचो । गदितं विप्रतारकम् ।।१।। राज्यप्युवाच- *
प्रश्नो. *जीवेश! विशदः केश-स्तव शीर्षे निरीक्षितः ।। स तु ख्यातोऽधिकं धर्म-दूतत्वेन मयोदितः ।।१।। राजापि *
सटीका * जगौ-कृशांगि किं त्वया सत्य-मेतदुक्तं मदग्रतः ।। देव्यप्यवदत्-प्राणेश! भवता दृष्टा । किं क्वाप्यलीकवादिनी * ३०९
*****************
For Personal & Private Use Only
www.jainelibrary.org