SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ * सेवालालितचेतसाम् ।। अत्यर्थं व्यर्थता नीत । एतावान् समयो मया ।।३।। सावद्यराज्यव्यापार- सावधानधिया * प्र.४९ * मया ।। सर्वसावद्यविरतौ । न मनोऽपि विनिर्ममे ।।४।। काचखंडेन माणिक्यं । स्नुह्या त्रिदशपादपः ।। हा * उ.५५ * वराटिकया कोटिः । पित्तलेनेह कांचनम् ।।५।। तथा विषेण पीयूषं। समहारि मया हि यत् ।। नृभवं प्राप्य * नृपस्य विवेकयुक्त र दुःप्रापं । जैनो धर्मो न सेवितः ।।६।। युग्मम् ।। तत्किं विधीयते कस्य। पुरः पूत्क्रियतेऽधुना ।। वचनम् * यस्मादापतितोऽकस्मा-द्विकटः संकटस्त्वयम् ।।७।। इति विमृशतो विशामीशस्य तद्वारि त्वरितमेवांघ्रिमूलमासदत् । * * ततो नृपो यावत्यंचपरमेष्ठिनमस्कारमहामंत्रमस्मरत्तावदुन्मूलिताऽऽलानस्तंभमिभमिव जनरहितं पोतं संमुखमायान्तं * सप्तभूमिकावासवरंडिकायां प्राप्तं वीक्ष्य सुबुद्धिरम्यधात्-स्वामिन्नारुह्यतां पोते । यद्वः पुण्योदयेरितः ।। * निस्तारायापदोऽमुष्याः । सुरोमुं कोऽप्यढोकयत् ।। १।। इत्याकर्ण्य यावत्सहर्षो भूपो वलभीस्थापितवामपादस्तत्र * * प्रवहणे समारोहणाय दक्षिणं चरणमुदपाटयत्तावन्न वहनं, न जलं, न तडित्, न गर्जितं, नेंद्रधनुः, न च + क्रंदितं, केवलं सकलेऽपि पुरे क्वचित्प्रमुदितप्रक्रीडितलोकं, क्वचित्संगीतरवं, क्वचिदारब्धप्रेक्षणीयं सभासीनो - * भूपः प्राग्वदपश्यत् । ततो नृपोऽत्यंतं विस्मितः स्माह-नैमित्तिककुलोत्तंसा-ऽदृष्टपूर्व किमेतकत् ।। प्रदर्शितं * तदाऽऽख्याहि । यत्तदाकर्णनोन्मनाः ।।१।। सोऽप्यूचे-भूपेंद्र! जालिको नाहं । निमित्तज्ञो यतो मया || * युष्मन्मनोविनोदार्थ-मिदं हि प्रकटीकृतम् ।।१।। ततस्तं शक्रजालिकं धनादिना सत्कृत्योवाच भूपः-हंहो * सटीका - सुबुद्धिप्रमुखा । महामात्यास्तथा जनाः । भवद्भिरीक्षांचक्रेऽदः । शक्रजालविजूंभितम् ।। १।। तेऽप्यूचिवांसः- ३०६ प्रश्नो. Aucation intemations For Personal & Private Use Only www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy