SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ ******** * अर्हच्छासनदेवताः ।।१।। भवतोऽस्याः कुमार्याश्च । पुण्यप्राग्भारंजिताः ।। कारुण्यपूर्णचेतस्का । इदं सर्वमकार्महि * प्र.४८ * ॥२।। नागदत्तोऽपि सविनयं प्राह-भगवत्यः सुष्ठु कृतं । किंत्वेतान् लंभितोरुशिक्षाकान् ।। सज्जीकुरुतरां + उ.५४ य-ज्जिनमतमेतत्कृपासारम् ।।१।। तदनु तदुपरोधेन सर्वा अपि शासनदेव्यस्तान् सज्जीकृत्य नृपकृत बहुमानः ___ अहो अस्य महाशयस्य नागदत्तस्य परधनग्रहणनिस्पृहतेतिमुखरमुखास्तडिदेखा इवालक्ष्यतामगुः । नृपोऽपि । ज्ञाततद्व्यतिकरः पौरादिपरिकरस्तत्रागत्य नागदत्तमालिंग्य च सादरमिदमवदत्-श्रेष्ठिपुत्र त्वमेवात्र । धात्र्यां । * धन्यो न चापरः ।। अत एतन्ममाऽन्यायं । क्षन्तव्यं नैव चिंत्यताम् ।।१।। इत्यादिना संतोष्य तत्कालमेव * * भूपालस्तं नागदत्तं दंतिवरमारोप्य पूर्यां प्रावेश्य धनदत्तश्रेष्ठिना सह स्वप्रासादमानीय संस्नाप्य भोजयित्वा * * चीनांशुकानि परिधाप्य भूषणैर्विभूष्य निजासनाः निवेश्य च शपथपूर्वं कुंडलकथामपृच्छत् । नागदत्तोऽपि * वसुदत्तजीवितव्याऽभयं मार्गयित्वा राज्ञे यथावृत्तमकथयत्, अहो ! महात्मनां कोऽपि परोपकारव्यापारः ! * * उक्तं च-उपकृत्युपकुर्वति । प्रायः सर्वेऽपि भूतले ।। अपकृत्युपकुर्वंति । पुरुषाः पंचषाः परं ।।१।। तदाकर्ण्य * * प्रमुदितः प्रजापालो भूयोऽपि तं गजमारोप्य पोरैः स्तूयमानं वृद्धांगनाकरनिक्षिप्तलाजेः पूज्यमानं स्वगृहाय * व्यसृजत् । ततः क्षितिपतिः कुपितो मुखं श्यामयित्वा रासभमारोप्य नागदत्तापकार्येष पातकीति सर्वत्र पुरि * प्रश्नो. के विस्वरडिंडिमवादनपूर्वं भ्रामयित्वा तं दुराशयं वसुदत्तं देशत्यागमकारयत् । अस्मिन् क्षणे प्रियमित्रोऽपि सहर्षः * सटीका * पुनर्वेश्मन्यागत्य नागवसुकन्यार्थं धनदत्तमभ्यर्थयामास । नागदत्तोऽपि तातगिरा तदमन्यत । ततः प्रियमित्रेण + ३०० www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy