SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ * शासनसुरी * बाढमाहत्य बद्धो नागदत्तः । नागवसुरपि तथावस्थं नागदत्तं वीक्ष्य हा हताऽहं, हा हताऽहं हतविधिनेति * प्र.४८ * प्रलपन्ती छिन्नमूललतेव भुव्यपतत् । हा किमेतत् किमेतदिति मुखरमुखाभिस्तत्सखीभिश्चंदनद्रवसेकव्यजनवातादिना * उ.५४ * सज्जीकृता सती सा सुदती रुदतीति व्यलपत्-जिनेश! हा ममायं कः । कुकर्मोदय आययो? ।। येनासो शासन प्रभावः * मत्पतिः शिष्ट-पटिष्ठः कष्टभागभूत् ।।१।। किंच-शासनामरि चेदस्ति । जैनधर्मे मतिर्मम || तदा यछ मम , * स्वामि-प्राणरक्षणभेक्षकम् (क्वापि चेछासनामर्यो भवत्यः स्थतमा तदा ।। एत्य यच्छत मे भर्तृप्राणरक्षण-* भिक्षिकाम् ।। पाठा.) ।।१।। अन्यच्च-रे दैव! कठिनस्वांतो-ऽसीदृग् यद्वंधवेशसम् ।। कदलीदलसोमाले। * शरीरेऽस्य समाचरः ।।१।। अथ चेदतिरुष्टोऽसि । तदा मामेव पापिनीं ।। मारयैनं तु निःपापं । रक्ष रक्ष पतिं * मम ।।२।। इत्यादिकामकारणानुरागवत्यास्तस्याः प्रलापवाणीं श्रुत्वा नागदत्त इत्यध्यासीत्-छुटनं यदि कष्टान्मे। * * भविता शासनसुरीप्रभावेण ।। त द्वोढाम्येनां । निरवध्यनुरागपरिकलिताम् ।।१।। नो चेदाहाराद्यं । व्युत्सृष्टं सिद्धसाक्षिकं नियमात् ।। नाऽहं कस्यापि न मे । कोऽपि च मुक्त्वा जिनं देवम् ।।२।। इतस्ते वसुदत्तभृत्या * मृत्युकिंकरा इव कंठे धृत्वा नागदत्तं खड्गादिभिर्जन्तो मुखै रुधिरधारा वारिधारा इव वमंतः समंततोऽपतन्। , * नागदत्तस्य तु तानि बंधनानि जीर्णरज्जुवदत्रुटन्, नालगंश्च कृपाणादिप्रहाराः, नागवसोरपि चोल्लसद्धर्षप्रकर्षात्कं-* प्रश्नो. चुककशाविशरारुतामगुः । किमेतत्किमेतदिति विस्मयवति नागदत्ते पुष्पवृष्टिपूर्वं शासनदेव्यः प्रत्यक्षीभूय जय सटीका - जीव नंदेत्याशिषो ददत्यो नागदत्तमूचुः-वत्स ! स्वच्छगुणग्राम-रामणीयकमंदिर ।। वयमपरतिचक्राद्या । म २९९ ducation International For Personal & Private Use Only www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy