SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ * सकृत् ।।१।। पुनर्मूढधीरारक्षोऽभाषत-प्राज्ञ! मे याचमानाय । विश्राणय निजांगजाम् ।। यावत्त्वं वांछसि * प्र.४८ * द्रव्यं । तावद्दातास्म्यहं तव ।।१।। सार्थपोऽपि हसन्नाहस्म-पुरारक्षक! कन्यानां । विद्यते किं निधिर्मम ।। यदेवं * उ.५४ ननु मूल्येन । विक्रीयन्ते तनूभवाः ।।१। एवं वचश्चातुर्यापहसितो वसुदत्तः स्वसदनमेत्य व्यचिन्तयत्-हतके * वसुदत्तस्य नागदत्ते नागदत्तेऽस्मिन्। जीवतीयं न मे भवेत् ।। तत्प्रपात्य च्छले भूपा-ज्ञयैनं घातयाम्यहम् ।।१।। तदादि स दुष्टो द्वेषः नागदत्तव्यापादनाय शाकिनीव छलममार्गयत् । एकदावनींदोर्बाह्यालीतो निवृत्तस्य क्रीडोद्यानमार्गे वाजिवल्गनवशात्कर्णाद्रत्नमयं कुंडलमपतत्, तदानीं तुरगावर्जनव्याकुलः क्ष्मापालस्तत्पतितमपि न विदांचकार । न चान्यैरप्युल्लसत्सेनारजोंधिकदृग्भिस्तदालोकयांचक्रे । प्रासादमायातो भूपः स्वभूषणानि भांडागारिकायार्पयन् * तत्कर्णकुंडलमनालोकयंश्च वसुदत्तं पुरारक्षमादिक्षत्-दांडपाशिक मे कर्ण-कुंडलं येन केनचित् ।। आत्तं भवति * तं ज्ञात्वा । सत्सूनुमपि शिक्षयेः ।।१।। स्वामिन्नादेशः प्रमाणमित्युक्त्वा निर्गत्य चारक्षः स्वयमन्यैश्च कुंडलं गवेषयतिस्म । अत्रान्तरे कायोत्सर्गाय नागदत्तः प्रदोषे पुरान्निःसृत्य पथि गच्छंस्तत्कर्णकुंडलं कुंडलिनमिव वीक्ष्य परिहत्य चान्याध्वना सहस्राम्रवनमध्यस्थचैत्यमेत्य प्रतिमा स्वीकृत्य च समाधिनास्थात्, वसुदत्तोऽपीतस्ततः * पर्यटैस्तदानीमित्यचिंतयत्-नागदत्तः किमध्वान-मेनमौज्झ्यापराऽध्वना ।। गतस्तत्तत्र गत्वाशु । कारणं प्रविलोकये * * ॥१।। इति विभाव्य स यावदग्रेऽगात्, तावत्तत्कर्णकुंडलं चंडांशुमंडलमिव देदीप्यमानं वीक्ष्य हृष्टमना सटीका इत्यचिन्तयत्-प्रियमित्रसुताप्राप्ति-विजदं नागदत्तकम्।। निहन्तुं साधु साध्वेत-छलमासादितं मया ।।१।। २९७ प्रश्नो. on International For Personal & Private Use Only www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy