SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ ***** जिनार्चायै गता तव ।। सुता धनश्रियः सूनुं । वीक्ष्याऽभूदनुरागिणी ||१|| प्रियमित्रौऽप्यूचे - प्रिये तत्रोचितः पुत्र्या । अनुरागो यतः स हि ।। गुणी तदेनं कर्तारः । सम्बन्धमतिबंधुरम् ||१|| ततो नागश्रीस्तदुदंतं लब्ध्वा तनूभवामभ्यनंदयत्, प्रियमित्रोऽपि गतो धनदत्तगृहं, तत्पृष्टः सोऽप्येवमाचष्ट - श्रेष्ठिन् यदत्र संसारे । रत्नाद्यं वस्तु जायते ।। स्थानं तस्याऽखिलस्यापि । भवनं भवदीयकम् ||१|| तन्ममास्ति सुतारत्नं । नागवस्वभिधानतः।। तां दातुं नागदत्ताय । समेतोऽहं त्वदन्तिकम् ||२|| तत् श्रुत्वा धनदत्तोऽप्यूचे - वयस्य ! भवता साधु । प्रोक्तं किन्तु ममांगभूः ।। स्वभावादेव विषयो- द्विग्नचेता विभाव्यते ||१|| प्रियमित्रोऽप्याहस्म - वणिग्वरशिरोरत्न । यद्यप्येवं तथापि मे ।। नंदिनी नागदत्तैक-मना नान्यं समीहते || १|| धनदत्तोऽप्यभाषत - सार्थपार्थिव । यद्येवं । तदा स्वांगभवाग्रतः ।। एतदुक्त्वा तदुक्तं तु । वक्तास्मि व्यक्तमेव ते ||9|| इत्युक्त्वा प्रियमित्रं विसृज्य तदुक्तं व्यतिकरं नागदत्ताय धनदत्तो न्यवेदयत्, नागदत्तोऽपि तथैव पितृवचो मेने । इतश्चात्रैव वासिना जितशत्रुनृपाऽभिष्टेन वसुदत्तनाम्ना पुरारक्षेण पथि गच्छता स्वगृहगवाक्षनिविष्टा साक्षान्नागकन्यकेव रूपातिशयमोहितजगज्जना नागवसुर्ददृशे दर्शनादेवाक्षिप्तस्वांतेन तेन वेश्मन्येत्य प्रियमित्राग्रत इत्यभाणि-सार्थवाह ! निजां पुत्रीं । देहि मे हि कदाचन ॥ कन्यारत्नं च तक्रं च । याच्यमानं तु न ह्रिये ।।१।। प्रियमित्रोऽप्यब्रवीत् - वसुदत्त ! प्रदत्तेयं । धनदत्ततनूभवे ।। नागदत्ताय तत्कन्या - दानं स्यात् सकृदेव हि ।।१।। यतः-सकृज्जल्पन्ति राजानः । सकृज्जल्पन्ति साधवः ।। सकृत्कन्याः प्रदीयन्ते । त्रीण्येतानि सकृत् & ****** प्र. ४८ उ. ५४ नागवसुरूपातिशय 'मोहितमनाः पुरारक्ष: प्रश्नो सटीका २९६ www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy