________________
*********
वाक्यमेककम् ।। आकर्णयत केयं हि । कन्या कस्य च नंदिनी || १|| तेऽप्यवदन्- मित्रेयं प्रियमित्रा - सार्थवाहस्य पुत्रिका ।। नागश्रीकुक्षिमाणिक्यं । नाम्ना नागवसुः कनी ||१|| सर्वोत्कृष्टं नरेषु त्वां । स्त्रीष्वेनां तु मनोहराम् ।। प्रविधाय विधिर्मन्ये । जज्ञे पूर्णमनोरथः ||२|| तत्रापि जायतेऽस्माकं । वर्णनीयोऽधिकं विधिः।। यद्ययं युवयोः संगं । विधत्ते तुष्टिपुष्टिदम् ||३|| नागदत्तोऽप्यवादीत् - सुहृदो मदभिप्रायपरिज्ञानपराङ्मुखाः।। यूयं यदेवं विदधे । जल्पोऽनल्पो मदग्रतः ||१|| नाऽल्पोऽपि मेऽनुरागोऽस्यां । पृष्टौ हेतुरयं तु यत् ।। अस्या अनन्यसामान्यं । कौशलं जिनपूजने ||२|| इति सुहृद्भिः सह जल्पं प्रकल्प्य चैत्यान्निर्गत्य नागदत्तोऽगारमगात् । इतश्च साऽपि सुमुखी सखीयुताऽभीष्टदैवतवत्तमेव ध्यायन्ती स्वावासमासदत्, तत्र तु तल्पोपरि पतिता सखीभिरभिहिताऽपि सा न वक्ति, न भुंक्ते, न पश्यति, केवलमालेख्यलिखितेवास्थात्, ततस्तत्स्वरूपं सखीभ्योऽवगत्य सवित्री तत्रागत्य तादृशीं दशामनुभवंतीं तां दृष्ट्वा सखेदं सबाष्पमित्यूचे - वत्से तुच्छेतरगुणे । म्रिये वद मदग्रतः ।। शिरीषसुमसोमाले । किं ते वपषि दुष्यति ||१|| नागवसुरण्यवोचत्-मातः किमपि नो जाने । परं मम विजृम्भते || देहे दाहज्वरोऽत्यर्थं । यथा वनदवो वने || १|| ततः सहासं वयस्याभिरभिहितं सखि ! जानीमहे सत्यं । देहे दाहज्वरस्तव । यतः प्रभातवेलायां । पीतं सलवणं किल || १|| नागवसुरपि ह्रिया न्यग्मुखीत्यध्यासीत् - अहो कथमिमाः सख्यो । भावमज्ञासिषुर्मम ।। यद्वैताः सहवर्तिन्यः ।
स्थाने याने गृहे बहिः || १ || ततस्तत्सखीभ्यस्तदाकूतमवेत्य नाग श्रीः पतिपार्श्वमेत्येत्याहस्म - प्रियाद्य प्रातरुद्याने ।
Jain Education International
For Personal & Private Use Only
米米米米米米米米米米米米米米米米米米米米米米米米
प्र. ४८
उ. ५४
नागवसु
अवस्था
प्रश्नो.
सटीक
२९५
www.jainelibrary.org