SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ प्र.४८ उ.५३ राज्ञी प्रतिबोध * प्रतिपन्नं स्या-प्रलयेऽप्यन्यथा न हि ।।१।। यतः-प्रतिपन्नानि महतां । युगांतेऽपि चलन्ति न ।। अगस्तिवचनैर्बद्धो । * * विंध्योऽद्यापि न वर्द्धते ।।१।। तन्निशम्य सार्थेशोऽप्यूचे-देवि सुष्ठूदितं किन्तु । परनार्योऽखिला अपि || * * सहोदर्यः सतां राजा-दिपन्यो मातरः पुनः ।।१।। यदाह-राजपत्नी गुरोः पत्नी । मित्रपत्नी तथैव च || * पत्नीमाता स्वमाता च । पंचैते मातरः स्मृताः ।।१।। किंचात्र लोके विषयाः । सेविता दुःखदायिनः ॥ * * तदेतत्सत्यमाख्यातं । समजायत निश्चितम् ।।२।। यदेकतः काकमांसं । तदप्युच्छिष्टमन्यतः ।। विषया अपि * * सेव्यन्ते । यदि तृप्तिर्भवेत्किल ।। तत्किमुच्छिष्टमप्येवं । भुज्यते मिष्टलोभतः ।।३।। तथा चैते न विषयाः । * - केवलं प्राणिनामलम् ।। किंपाकफलवद्भुक्ताः । सन्तो जीवितघातिनः ।।४।। अन्यच्चाऽऽशैशवाद्रूप-जितमारस्य न * भूभुजः ।। तादृशैर्भोगसंयोगे -श्चेन्न तृप्तिस्तवाऽभवत् ।।५।। तत्ते मम वणिग्मात्र-स्यांगभोगभवैः सुखैः ।। * * क्षणिकैः का भवित्री हि । तृप्तिस्तद् ब्रूहि मत्पुरः ।।६।। भूपपत्न्यप्येतदाकर्ण्य पुनरूचे-हंहो सुभग! यद्येवं । ऋतर्हि दूतीमुखात्त्वया ।। किमित्यहं समाहूता । तन्निवेदय वेगतः ।।१।। सार्थपर्थिवोऽपि जगो-देवि त्वत्पुरतो * जैनं । धर्ममाख्याय सत्पथे ।। स्थापयिष्यामीति धिया । त्वमाहूता मया स्फुटम् ।।१।। तन्मुंचाऽमुमसद्ग्राहं । * कुरु धर्मं दयासमम् ।। सतीव्रतमखंडं चा-चर येन भवेद्यशः ।।२।। तदेतत् श्रुत्वा गताऽनंगविकारा राज्ञी * * पुनरभाणीत्-भो भद्र प्रस्फुरद्भद्र | कोऽन्यो भुवि भवत्समः || यः कुर्यात्स्वयमायात-वनितास्ववधीरणाम् * ।।१।। तत्त्वमेव ध्रुवं धन्य-स्त्वमेव परमो गुरुः ।। येनाहं रक्षितेदृक्षादकर्तव्याज्जुगुप्सितात् ।।२।। इति तत्स्तुतिमुखरा * प्रश्नो. सटीका २९२ For Personal & Private Use Only www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy